पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
एकादशः सर्गः ।


  अथातिदुःसहनिकारान्तरमाह--

उपधात्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।
भावमानयने सत्याः सत्यंकारमिवान्तकः ॥५०॥

  उपाधत्तेति ॥ अन्तको मृत्युर्गुरुसंनिधौ भीष्मद्रोणादिसमक्षमेव सत्याः पतिव्रतायाः कृष्णाया द्रौपद्या आनयने केशाम्वरादिकर्षणे भावं चित्ताभिप्रायमितः परमनेन पाण्डवाभिभवेनैतान्स्वनगरं नेष्यामीत्येवंभूतं सत्यंकारमिव। क्रियतेऽनेनेति कारः।करणे घञ् । सत्यस्य कारः सत्यंकारः सत्यापनम् । चिकीर्षितस्य कार्यस्यावश्यं क्रियास्थापनार्थं परहस्ते यद्दीयते स सत्यंकारः। क्रियादौ सत्यदार्ढ्याय प्राग्दीयमानो मूल्यैकदेशश्च। 'क्लिबे सत्यापनं सत्यंकार: सत्याकृतिः स्त्रियाम्' इत्यमरः । 'कारे सत्यागदस्य' इति मुमागमः । तमिव सपत्नेषुपाधत्त निहितवान् । तेषां विनाशकाले विपरीत- बुद्धिमुत्पादितवानित्यर्थः ॥

  केनेयमाकृष्टा सभ्यैर्वा किं कृतं तत्राह-

तामैक्षन्त क्षणं सभ्या दुःशासनपु[१]रःसराम् ।
अभिसायार्कमावृत्तां छायामिव महातरोः॥ ५१ ॥

  तामिति ॥ दुःशासनः पुरःसरो यस्यास्तां तथोक्ताम् । दुःशासनेन सभां प्रत्याकृष्य- माणामित्यर्थः । 'अनुपसर्जनात्' इति न ङीप् । तां कृष्णाम् । सभायांसाधवः सभ्या:। सभाया यः इति यप्रत्ययः । अभिसायार्कं दिनान्तसूर्याभिमुखम् । स्थितस्येति शेषः । 'सायो नाशदिनान्तयोः' इति विश्वः । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः। महातरो: संबन्धिनीमावृत्तां छायामिव तां कृष्णां क्षणमैक्षन्त । न चिरं जुगुप्सितत्वात् । नापि किंचिद्वयाप्रियन्त माध्यस्थभङ्गभयात् । ते त्वर्कवदेव साक्षित्वमात्र- मास्थिता इत्यर्थः । अत्राकृष्यमाणायाः कृष्णाया आक्रष्टारं प्रति पराङ्मुखत्वादावृत्त- च्छायौपम्यम् । तथापि तां न मुञ्चतीति दुःशासनस्य तरुसाम्यम् ।।

  अथास्यास्तादात्मिकमायथार्थ्यं वर्णयति--

अयथार्थक्रियारम्भैः पतिभिः किं त[२]वेक्षितैः ।
अरुध्येतामितीवास्या नयने बाष्पवारिणा ॥ ५२ ॥

  अयथार्थेति ॥ अयथार्था मिथ्याभूताः क्रियारम्भाः प्रतिशब्दप्रवृत्तिनिमित्तभूतकर्मोद्योगा येषां तैः। तामरक्षद्भिरित्यर्थः। तव संबन्धिभि: पान्ति रक्षन्तीति पतयो भर्तार:। 'पातेर्डतिः' इत्यौणादिको डतिप्रत्ययः। तैरीक्षितैरवेक्षितैः किम् । न किंचित्फल- मस्तीत्यर्थः । इतीवेत्थं विचार्यैवेत्युत्प्रेक्षा । बाष्पवारिणास्या: कृष्णाया नयने अरु- ध्येतामावृते । रुधेः कर्मणि लङ् । अशरणा रुरोदेत्यर्थः ॥


  1. 'पुरोगमाम्' इति पाठः
  2. 'निरीक्षितैः' इति पाठः