पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
एकादशः सर्गः ।


गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा ।
येषां यशांसि शु [१] भ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥६४॥

  गुरूनिति ॥ ते नरा वंश्यानन्वये भवान्गुरून्कुर्वन्ति प्रथयन्ति । स्वनाम्ना व्यपदेशयन्ति रघुदिलीपादिवदित्यर्थः। तैर्नरैः। वसूनि धनानि धरतीति वसुंधरा।'संज्ञाया भृतृवृजि-' इत्यादिना खच्प्रत्यये 'खचि ह्रस्वः' इति ह्रस्वान्नुमागमश्च । अन्वर्थानुगतार्था । तेषां वसुभूतानां धारणादिति भावः । येषां शुभ्राणि यशांसीन्दुमण्डलं ह्रेपयन्ति लज्जयन्ति। यशसो निष्कलङ्कत्वादिति भाव: । ईदृशं हि यशोमानमहत एव संभवतीति तात्पर्यार्थः। ह्रीधातोर्ण्यन्ताल्लट्।'अर्तिह्नि-'इत्यादिना पुगागमः। अत्र ह्रेपणस्य सादृश्यपर्यवसानादुपमालंकारः॥

उदाहरणमाशी:षु प्रथमे ते मनस्विनाम् ।
शुष्केऽशनिरिवामर्षों यैररातिषु पात्यते ॥ ६५ ॥

  उदाहरणमिति ॥ यैरमर्षः क्रोध: शुष्के नीरसेऽशनिरिवारातिषु विषये पात्यते प्रक्षिप्यते मनस्विनां मानिनां प्रथमेऽग्रेसरास्त आशी:षु पुरुषैरेवं भवितव्यमेवंरूपासूदाहरणं निदर्शनम् । भवन्तीति शेषः । रामादिवदुपमानं भवन्तीत्यर्थः । अतो न त्याज्यो मान इति संदर्भार्थः॥

  यदुक्तम् 'अभिद्रोहेण भूतानाम्' इत्यादि, तत्र युग्मेनोत्तरमाह-

न सुखं प्रार्थये नार्थमुदन्वद्वीचिचञ्चलम् ।
ना[२]नित्यताशनेस्त्रस्यन्विविक्तं ब्रह्मणः पदम् ॥ ६६ ॥

  नेत्यादि ॥ उदन्वद्वीचिरिव चञ्चलं समुद्रतरङ्गवदस्थिरं सुखं कामं न प्रार्थयेच्छामि। तथा चञ्चलमर्थं च न प्रार्थये । किं चानित्यता विनाशिता सैवाशनिस्तस्मा अस्यन्विभ्यत् । 'वा भ्राश-' इत्यादिना श्यन्प्रत्ययः। विविक्तं निर्बाधं ब्रह्मणो वेधस आत्मनानपद्यत इति पदं स्थानमैक्यलक्षणं मुक्तिं च न प्रार्थये । एतेन यदुक्तम् 'ढच्छेदुं जन्मनः कर्तुम्' इत्यादि, तत्समाहितम् ।

प्रमार्ष्टुमयशःपङ्कमि[३]च्छेयं छद्मना कृ[४]तम् ।
बैधव्यतापितारातिवनितालोचनाम्बुभिः॥६७॥

  प्रमार्ष्टुमिति ॥ किंतु च्छद्मना कपटेन कृतम् । शत्रुभिरिति शेषः । अयश एक पङ्कमिति रूपकालंकारः । वैधव्येन तापितानां दुःखीकृतानामरातिवनितानां लोचनाम्बुभिः प्रमाष्टुं क्षालयितुमिच्छेयमभिलषेयम्। इषिधातोर्लिङि रूपम्। वैरनिर्यातनातिरिक्तं न किंचिदिच्छामीत्यर्थः ॥


  1. 'शुक्लानि' इति पाठः
  2. 'न चानित्याशनेः' इति पाठः
  3. 'इच्छामि' इति पाठः
  4. 'मतम्' इति पाठः