पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
किरातार्जुनीये


यदुक्तम् 'विजहीहि रणोत्साहम्' इत्यादि, तत्रोत्तरमाह---

कथं वादीयतामर्वाङ्मुनिता धर्मरोधिनी ।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ ७६ ॥

  कथमिति ॥ धर्मरोधिनी धर्मविरोधिन्यर्वाग्गार्हस्थ्यात्प्रागेव मुनिता वानप्रस्थत्वं चतुर्थाश्रमता वा । वर्णप्रक्रमेण तस्य विधानात् 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनाच्च क्षत्रियस्यापि कैश्चिदिष्टत्वात् । तदेतत्सम्यग्विवेचित- मस्माभी रघुवंशसंजीविन्याम् 'स किलाश्रममन्त्यमाश्रितः' इत्यत्र । कथं वादीयतां मया कथं वाङ्गीक्रियताम्। संप्रश्ने लोट्। तथाहि। पूर्वैर्मन्वादिभिराश्रमानुक्रमः स्मर्यते। न तु व्यतिक्रमः । 'ब्रह्मचारी भूत्वा गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत्' इति श्रुत्यनुसारादित्यर्थः । एतदपि 'चत्वार आश्रमाः' इत्येतत्पक्षमा- श्रित्योक्तम्। यदि चेद्वैराग्यं तदा ब्रह्मचर्यादेव प्रव्रजेत्। गृहाद्वनाद्वेति व्युत्क्रमपक्षस्यापि श्रवणात् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥

  ननु भवान्गृहस्थ एव । तत्कथमर्वाङ्मुनित्वविरोध इत्याशङ्क्य सत्यं गृहस्थोऽस्मि, तथापि कृतनिखिलगृहस्थकर्तव्यस्यैव वानप्रस्थाधिकारो न गृहस्थमात्रस्य । न चाह- मद्यापि कृतकृत्य इत्युत्तरमाह-

आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥७७ ॥

  आसक्तेति ॥ आसक्ता लग्ना। अवश्यं कर्तव्येत्यर्थः । रूढा प्रसिद्धा । महतीत्यर्थः। इयं पूर्वोक्ता धूर्वैरनिर्यातनभारः । दूरगा दूरवर्तिनी जननी च मातापि । तथा नृपोऽप्या- चारवान् । तपोधिक इत्यर्थः । तत्रापि ज्यायाञ्ज्येष्ठो नृपो युधिष्ठिरश्च मे मम स्वा- तन्त्र्यं स्वाच्छन्द्यं तिरस्करोति दूरीकरोति। आश्रमान्तरं प्रतिबध्नातीत्यर्थ:।तिरस्करोतीति प्रत्येकमभिसंबध्यते । अन्यथा बहुवचनप्रसङ्गात् ।।

  उक्तमर्थमुपसंहरति--

स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥७८ ॥

  स्वधर्ममिति ॥ मानशालिनः स्वधर्मं क्षात्रधर्ममनुरुन्धन्तेऽनुवर्तन्ते । अतिक्रमं स्वध- र्मातिक्रमं नानुरुन्धन्ते । ततः किमत आह-अरातिभिरिति । अरातिभित्कृतध्वंसाः कृतापकाराः सन्त आहवान्न पलायन्ते । अयमेव स्वधर्मानुरोध इत्यर्थः । 'उपसर्गस्यायतौ' इति रेफस्स लत्वम् । अत्र मनु:--'न निवर्तेत सङ्ग्रामात्क्षात्रधर्ममनुस्मरन्' इति । अत्रोत्तरवाक्यार्थं प्रति पूर्ववाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥