पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
द्वादश: सर्गः।


शषः । आद्रचन्दन उमायाः कुचयुग्ममण्डल इव कृतबाहुंन्यस्तहस्तमत एव स्पर्शसु- खमनुभवन्तम् । ककुदस्य तथाविधस्पर्शसुखकरत्वादिति भावः । उपमालंकारः॥

स्थितमुन्नते तुहिनशैलशिरसि भुवनातिवर्तिना।
साद्रिजलधिजलवाहपथं सदिगश्रुवानमिव विश्वमोजसा ॥ २१॥

  स्थितमिति ॥ उन्नते तुहिनशैलशिरसि हिमवतः शिखरे स्थितम् । क्वचित्कोणे स्थितमित्यर्थः । तथापि भुवनातिवर्तिना सर्वलोकातिशयिनौजसा तेजसा। अद्रिभिः पर्वतैर्जलधिभिः समुद्रैर्जलवाहपथेनाकाशेन च सह वर्तत इति तथोक्तम् । दिग्भिः सह वर्तत इति सदिक् । उभयत्रापि 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। विश्वमश्रुवानं व्याप्नुवन्तमिव स्थितमित्युत्प्रेक्षा । 'अशुङ् व्याप्तौ' इति धातोः शानच् ॥

अनुजानुमध्यमवसक्तविततवपुषा महाहिना ।
लोकमखिलमिव भूमिभृता रवितेजसामवधिना[१]धिवेष्टितम् ॥२२॥

  अनुजान्विति ॥ जानुनोर्मध्येऽनुजानुमध्यम् । विभक्त्यर्थेऽव्ययीभावः । अवसक्तं लग्नं विततमायतं च वपुर्यस्य तेन महाहिना । अवसक्तिकाबन्धभूतेनेत्यर्थः । अधिवेष्टितमत एव रवितेजसामवधिनां पर्यन्तभूतेन भूमिभृता लोकालोकाचलेनाभिवेष्टितमखिलं लोकमिव स्थितमित्युपमा । 'असूर्यंपश्यापरभागो लोकालोकाचलः' इत्यागमः ।।

परिणाहिना तुहिनराशिविशदमुपवीतसूत्रताम् ।
नीतमुरगमनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ २३ ॥

  परिणाहिनेति ॥ पुनश्च । तुहिनराशिवद्विशदं शुभ्रमुपवीतसूत्रतां यज्ञोपवीतत्वं नीतं प्रापितमुरगं शेषाहिमनुरञ्जयता स्वगुणोपरक्तं कुर्वता । श्यामीकुर्वतेत्यर्थः। परिणाहिना विशालेन विलसन्मरीचिना प्रसृतकिरणेन शितिना नीलेन गलेन कण्ठेनोपलक्षितम् । 'कण्ठो गलोऽथ ग्रीवायाम्' इत्यमरः । अत्रोरगस्य स्वधवलिमत्यागेनान्यजन्यनीलिम- ग्रहणात्तद्गुणालंकार:-'स्वगुणत्यागादन्योत्कृष्टगुणग्रहस्तद्गुणः' इति लक्षणात्।।

प्लुतमालतीसितकपालकमुदमुपरुद्धमूर्धजम् ।
शेषमिव सुरसरित्प[२]यसा शिरसा विसा[३]रि शशिधाम बिभ्रतम् ॥२४॥

  प्लुतेति ॥ पुनश्च । मालती जातीकुसुमम् । 'सुमना मालती जातिः' इति ।'पुष्पे जातीप्रभृतयः स्वलिङ्गा ब्रीहयः फले' इति चामरः । तद्वत्सितं यत्कपालमेव कुमुदं तत्प्लुतमाप्लुतं येन तत्तथोक्तम् । अवरुद्धमूर्धजं व्याप्तशिरोरुहम् । अत एव सुरसरित्पयसां शेषमिव निर्यातावशिष्टं गाङ्गमम्भ इव । स्थितमित्यर्थः । उत्प्रेक्षालंकारः। विसारि विसृत्वरं शशिधाम चन्द्रतेजः शिरसा बिभ्रतम् । पुरुषं ददृशुरिति पूर्वेण संबन्धः ।।


  1. 'अभिवेष्टितम्' इति पाठः
  2. 'पयसः' इति पाठः
  3. 'विकाशि' इति पाठः