पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
त्रयोदशः सर्गः।


  कच्छान्त इति ॥ लक्ष्मीवान् । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' इति मतुपो मकारस्य वकारादेशः । स शिवः । सुरसरितो मन्दाकिन्याः कच्छान्तेऽनूपप्रान्ते । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । सेनां निधाय । स्थापयित्वेत्यर्थः । कतिपयैः किरातवर्यैरन्वीतोऽनुगतः सन् । 'ई गतौ' इति धातोरनुपूर्वात्कर्मणि क्तः । सगुल्मजालैर्लताप्रतानसहितैस्तरुगहनैः प्रच्छन्नश्छादितः । 'वा दान्तशान्त-'इत्यादिना निपातः। तस्य वराहस्य पदमन्वनुपदम् । पदानुसारेणेत्यर्थः । संप्रतस्थेप्रस्थितः। 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । प्रहर्षणीवृत्तम् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां द्वादशः सर्गः समाप्तः ॥


त्रयोदशः सर्गः।


वपुषां परमेण भूधराणामथ संभाव्यपराक्रमं विभेदे ।
मृगमाशु वि[१]लोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ १॥

  वपुषेति ॥ अथेश्वरप्रस्थानानन्तरं महेन्द्रसूनुरर्जुन: परमेण महता वपुषा हेतुना भूधराणां विमेदे विदारणे संभाव्यपराक्रमं क्षमोऽयमिति प्रतर्क्यपौरुषं स्थिराभ्यां दृढाभ्यां दंष्ट्राभ्यामुग्रं मुर्ख यस्य तं मृगम् । वराहमित्यर्थः । आशु तदागमनानन्तरम् । अविलम्वेनेत्यर्थः । विलोकयांचकार ददर्श । अस्मिन्सर्गे प्राक्पञ्चत्रिम्शच्छोकादौपच्छन्द- सिकं वृत्तम् ॥

स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधीरितान्यकृत्यः ।
नयमिच्छति तस्य जातशङ्के मनसीमं मुहरा[२]ददे वितर्कम् ॥ २ ॥

  स्फुटेति ॥ स्फुटं स्पष्टं यद्धा विरचिता सटानां केसराणामुन्नतिरुद्धतिर्यस्य सः । क्रोधाद्धर्षितलोमेत्यर्थः । 'सटा जटाकेसरयोः' इति विश्वः । दूरादभिधावन्संमुखमापतन् । तथावधीरितान्यकृत्यस्त्यक्तान्यकर्मा स वराहो जयमिच्छति जयार्थिन्यत एव जातशङ्के । स्वयं जिघांसोर्द्विषामेकलक्ष्यत्वादिति भावः। तस्य मुनेर्मनसि मुहुरिमं वितर्कं वक्ष्यमाणमूहम् । 'अध्याहारस्तर्क ऊहः' इत्यमरः । आदद उत्पादितवान् ।

  अथैकादशभिर्वितर्कमेव निरूपयति---

घनपोत्रवि[३]दीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः।
अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥३॥

  घनपोत्रेति ॥ धनेन कठिनेन पोत्रेण मुखाग्रेण विदीर्णानि विदलितानि शालमूलानि


  1. 'विलोकयांबभूव' इति पाठः
  2. 'आदधे' इति पाठः
  3. 'विकीर्ण' इति पाठः