भ्यश्च चेत एव हितैषिणं रिपुं वा मित्रममित्रं च कथयति । यत्र यत्र मनः प्रसीदति
तदेव मित्रम् । यत्र क्षुभ्यति सोऽमित्र इति निश्चितमित्यर्थः । अतोऽयं वध्य इति
भावः।
ननु मुनेः किमनया दुःशङ्कया । तत्राह--
मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतयेऽभिमानः । |
मुनिरिति ॥ मुनिरस्मि । अतो निरागसो निरपराधस्य मे कुतो भयमित्येयोऽभिमा- नोऽहंकारः । अनपकारिणं मां कोऽपि किं करिष्यतीति बुद्धिर्भूतये श्रेयसे न भवति । तथा हि । परवृद्धिषु विषये बद्धमत्सराणां दुरात्मनामलङ्घ्यं किमिवास्ति । न किं- चिदकार्यमस्तीत्यर्थः । इवशब्दो वाक्यालंकारे ।
अस्तु । जिघांसुरपि तुच्छः किं करिष्यतीत्यत्राह--
दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बतास्ति सत्त्वे । |
दनुज इति ॥ अयं दनुजः स्विद्दानवो वा क्षपाचरो राक्षसो वा । न तु मृग एवेत्यर्थः। कुतः। वनजे सत्त्वे वन्यप्राणिनीतीदृशं बलं नास्ति। वतेत्याश्चर्ये। वलमेव समर्थयते। तथा हि । मेघनीलोऽयं वराहः सकलं शैलराजमभिभूयाक्रम्य कम्पयतीव।पदविष्टम्भभरात्तथा प्रतीयत इत्यर्थः । अत्र कम्पयतीवेत्युत्प्रेक्षागर्भोऽयं शैलकम्पनरूपकार्येण तत्कारणबलातिरेकसमर्थनात्कार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासः॥
किं च। योऽयं शैले मृगयाकलकल इव श्रूयते सोऽप्येतन्मायापरिकल्पित एवेत्याह-
अयमेव मृगव्यसत्रकामः प्रहरिष्यन्मयि मायया शमस्थे। |
अयमिति ॥ अयमेव शमस्थे शान्तिनिविष्टे इति रन्ध्रोक्तिः। मयि । अधिकरणविवक्षायां सप्तमी । मायया प्रहरिष्यन् । प्रहर्तुमिच्छन्नित्यर्थः । 'लृट् शेषे च' इति चकारात्- क्रियार्थायां क्रियांयां लृट् । 'लृटः सद्धा' इति शत्रादेशः । मृगव्यं मृगया तस्य सत्रं वनम् । तदर्थं वनमित्यर्थः । तत्कामयत इति मृगव्यसत्रकामः । मृगयाभूमिपरिग्रहार्थी सन्नित्यर्थः । 'कर्मण्यण्' । 'आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्' इति, 'सत्र- माच्छादने यज्ञे सदा दाने वनेऽपि च' इति चामरः। पृथुभिर्बृहद्भिर्ध्वजिनीरवैः सेनाकलकलैः स्वमायया कल्पितैरेवेत्यर्थः । काननानि चकितोद्भ्रान्तास्त्रस्तपलायिता मृगायेषु तान्यकार्षीच्चकार । अयमेव रन्ध्रान्वेषी मत्प्रहारार्थं स्वयमेव मृगयुर्भूत्वा वनावरोधाय सेनाघोषं कल्पयामास । स मृगरूपेणागच्छत्तीत्यर्थः ।।