वितर्कान्तरमाह-
बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य । |
बहुश इति ॥ अथवा बहुशः कृता सत्कृतिः सत्कारो येन तस्य दुर्योधनस्य प्रियं मद्वधरूपं प्रतिप्रियं विधातुं कर्तुमिच्छन् । यः कश्चिदिति शेषः । वनं गोचरः स्थानं येषां तेषां वनगोचराणामभियोगादवरोधात् । 'अभियोगोऽवरोधः स्यात्' इति हलायुधः । क्षुभितमुद्विग्नमाकुलं चलं तिरश्चां मृगादिपशूनां गणमाशिश्रियद्वराहरूपेण प्राविक्षत्। 'णिश्रिद्रुस्नुभ्यः कर्तरि चङ्' । 'चङि' इति द्विर्भावः ॥
वितर्कान्तरमाह-
अवलीढसनाभिर[१]श्वसेनः प्रसभं खाण्डवजातवेदसा वा। |
अवलीढेति ॥ खाण्डवजातवेदसा खाण्डववनाग्निना प्रसभमवलीढसनाभिर्दग्धबन्धुः। 'सपिण्डास्तु सनाभयः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः' इत्यमरः।अत एव समन्युर्बद्धवैरः । तस्यार्जुनस्यापकारयितृत्वादिति भावः । अश्वसेनस्तक्षकपुषः कश्चिन्महासर्पः प्रतिकर्तुं वैरनिर्यातनार्थमुपागतो वा । वराहमाययेति शेषः । पक्षान्तरमाह- यदि वा वृकोदरेण भीमसेनेन कृतमन्युर्जनितक्रोधो वा । कश्चिदिति शेषः । पुरा किल पाण्डवः खाण्डवदाहे पावकभयात्पलायमानांस्तक्षकपुत्रानश्वसेनस्य बन्धून्वाणैरवरुध्य दाहयामासेति भारतकथा ॥
अथ द्वाभ्यामनन्तरकरणीयमध्यवस्यति--बलेत्यादिना ॥
बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः । |
किंबहुना । यथा तथा वास्तु । अयं मायिकः पारमार्थिको वास्त्वित्यर्थः । सर्वथापि बलशालितया। बलदृप्ततयेत्यर्थः । उच्छेदपरां धियं दधानः । मां जिघांसुरित्यर्थः । अतोऽयं मृगो नियमेनावश्यं मया निबर्हणीयो वध्यः । 'प्रमापणं निबर्हणम्' इत्यमरः । तथा हि । अरातिभङ्गं शत्रुक्षयं परमं लाभमाहुः ॥
ननु तपोविरोधिनी हिंसेत्याशङ्ख्याह-
कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् । |