कुर्विति ॥ हे तात वत्स, मार्गदायी न भवतीत्यमार्गदायी । रन्ध्रान्वेषिणां प्रवेशम-
यच्छन्नित्यर्थः । कुतः। जयार्थित्वादित्याह-विजयाय तपांसि कुर्विति मुनिर्व्यासो मामलं
भृशमन्वशादनुशिष्टवान् । अनुशासेर्लङ्। ननु मुनिर्वा कथमधर्ममन्वशात्तत्राह-
बलिन इति । अस्य मृगस्य बलिनः प्रबलस्य वधादृते वधं विना।'अन्यारादितरर्त-'
इत्यादिना पञ्चमी । अन्यथोपायान्तरेण व्रतसंरक्षणं तपोरक्षणं कर्तुं न शक्यम् ।
हिंसापि दुष्टनिग्रहात्मिका नाधर्म इत्यर्थः ॥
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे । |
इतीति ॥ तेनार्जुनेनेतीत्थं विचिन्त्य वितर्क्य चापनाम चापाख्यं प्रथमं पौरुषचिह्नम् । तस्य मुख्यायुधत्वादिति भावः। आललम्बे गृहीतम् । कर्मणि लिट् । अथ परस्य शत्रोर्मेंदे विदारण उपजापे चोपलब्धगुणो ज्ञातशक्तिः। बाणस्तु प्राप्तमौर्वीकश्चेति शेषः। शुद्धो ऋजुर्दिग्धत्वादिदोषरहितो वा । 'न कर्णभेदैर्नो दिग्धैर्नाग्निज्वलिततेजसै:' इति निषेधात् । अन्यत्रोपधाविशुद्धः । बाणश्च सचिव इवाददे जगृहे । अत्र बाणसचिवयोः शब्दमात्रसाधार्म्याच्छेषालंकारः प्रकृताप्रकृतविषय इति सर्वस्वकारः । उपमैवेति केचित् ॥
अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन । |
अनुभावेति । गुरु महत्पूज्यं च स्थिरत्वात्सारवत्त्वादविसंवाद्यभङ्गुरम् । अन्यत्र प्रतिष्ठितत्वादसत्यरहितम् । गुणवत्सज्यम् । अन्यत्रौदार्यादिगुणवत् । धनुर्मिन्नमिवा- नुभाववता निश्चयबुद्धिमता । 'अनुभावः प्रभावे च सतां च मतिनिश्चये' इत्यमरः । धनंजयेन स्वबलव्यसनेऽपि तपसा क्षीणत्वेऽपि । अन्यत्र स्वं धनं तदेव बलं तस्य व्यसने नाशेऽपि । पीड्यमानमाकृष्यमाणमवरुद्ध्यमानं च सन्मित्रमिवानतिं नम्रतामानुकूल्यं च प्रपेदे । अलंकारस्तु पूर्ववत् ॥
प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् । |
प्रविकर्षति ॥ तदानीं तस्मिन्काले महेषौ बाणे गाण्डिवमर्जुनधनुरधिरोहति सति। 'कपिध्वजस्य गाण्डीवगाण्डिवौ पुनपुंसकौ' इत्यमरः । 'गाण्ड्यजगात्संज्ञायाम्' इति वप्रत्ययः । प्रविकर्षेण ज्यास्फालनेन यो निनादस्तेन भिन्नरन्ध्रो विदलितगह्वर: । तथा पदविष्टम्भेन पादाक्रमणेन निपीडितो नुन्नः सकलः सर्वः शैलः संशयं जीवितसंदेह- मारुरोह । प्रापेत्यर्थः । अत्र शैलस्य संशयासंबन्धेऽपि संबन्धकथनादतिशयोक्तिरलंकारः।