पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
किरातार्जुनीये


ददृशेऽथ[१] सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः ।
रचितस्तिसृणां पुरां विधातुं वधमात्मेव भ[२]यानकः परेषाम्॥१७॥

  ददृश इति ॥ अथ बाणसंधानानन्तरं शिवेन स्थिरं निश्चलं पूर्णं च यथा तथायत आकृष्टे चापमण्डले तिष्ठतीति तथोक्तः । चापमण्डलमन्तर्धाय स्थित इत्यर्थः।तिसृणाम्। 'न तिसृचतसृ' इति दीर्घप्रतिषेधः । पुराम् । त्रिपुरासुरस्येत्यर्थः । वधं संहारं विधातुं कर्तुं रचितः कल्पितः । स्थानविशेषे स्थापित इति यावत् । आत्मा स्वयमिव परेषां भयानको भयंकरः सोऽर्जुनः सविस्मयं ददृशे दृष्टः । उपमालंकारः ॥

  अथ पिनाकिवृत्तान्तमाह---

विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः ।
धनुरा[३] यतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शंभुः ॥ १८ ॥

  विचकर्षेति ॥ अथ शंभुश्च संहितेषुः सन् । उच्चैर्भृशं चरणास्कन्दनेन पदविष्टम्भेन नामितोऽधो नीतोऽचलेन्द्रो येन स तथोक्तः आयतभोग आकृष्टकायो वासुकिरेव ज्या तस्य वदनमेव ग्रन्थिस्तेन विमुक्त उत्सृष्टो वह्निर्यस्य तद्धनुर्विचकर्षेति स्वभावोक्तिः ॥

स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधांस्यतोः सहार्थम् ।
रिपुराप पराभवाय मध्यं प्रकतिप्रत्यययोरिवानुबन्धः ॥ १९ ॥

  स इति ॥ सह संभूयार्थमरिवधरूपप्रयोजनं विधास्यतोः करिष्यतोः । अन्यत्र सहार्थमभिधेयमभिधास्यतोरित्यर्थः । 'प्रकृतिप्रत्ययौ सहार्थं ब्रूतः' इति वचनात् । भवक्षयैकहेतोः संसारोच्छेदनिदानस्य भवस्य शिवस्य सितसप्तेरर्जुनस्य च मध्यं रिपुर्वराहः। यस्मात्प्रत्ययो विधीयते सा प्रकृतिर्धात्वादिः । प्रत्ययः सनादिः । तयोर्मध्यमनुबन्ध इत्संज्ञको वर्णः । यथा भूतं भूतिरित्यादौ ककारः। स इव पराभवाय नाशाय लोपार्थमेवाप । न तु स्थित्यर्थमित्यर्थः ॥

अथ दीपितवारिवाहवर्त्मा खवित्रासितवारणादवार्यः।
निपपात जवादिषुः पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानु: ॥२०॥

  अथेति ॥ अथ रिपोर्मध्यप्रवेशानन्तरं दीपितं वारिवाहवर्त्माकाशं येन सः। अवार्यों दुर्वार इषुः शरो रववित्रासितवारणात्स्वघोषभीषितगजात्पिनाकाच्छिवधनुषः- 'पिनाकोऽजगवं धनुः' इत्यमरः । महतोऽभ्रान्मेघाद्विद्युतोऽयं वैद्युतः कृशानुरशनि । रिव जवाद्वेगान्निपपातादधाव ॥

व्रजतोऽस्य बृहत्पतत्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः ।
प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥ २१ ॥


  1. 'च' इति पाठः
  2. 'भयंकरः' इति पाठः
  3. 'आतत' इति पाठः