स्फुटपौरुषमापपात पार्थस्तमथ प्राज्यशरः शरं जिघृक्षुः । |
स्फुटेति ॥ अथ वराहपातानन्तरं पार्थोऽर्जुनः प्राज्यशरः प्रभूतशरः । सन्नपीत्यर्थः। 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः । स्फुटपौरुषं व्यक्तविक्रमं वराहभेदिनं शरं जिघृक्षुर्ग्र- हीतुमिच्छु: । ग्रहे: सन्नन्तादुप्रत्ययः। आपपाताधावति स्म । कृतज्ञतया शरग्रहणम् । न तु लोभादित्यर्थः । नन्वन्येऽप्युपकर्तार एव । किमित्यत्रैवादरस्तस्येत्यत आह- कृतवेदिनां कृतज्ञानां कृतावदानः कृतकर्मा । 'अवदानं कर्म वृत्तम्' इत्यमरः। यथा प्रियतामेति तथा करिष्यन्नुपकरिष्यन्न प्रियतामेति । कृतकरिष्यमाणयोः कृतं बलीय इति न्यायादिति भावः ॥
अथ युग्मेनाह-
उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् । |
उपकार इति । असति नीचे प्रयुक्त उपकार इव मृगे स्थितिमप्राप्य प्रणाशमदर्शनं गत इत्युपमा । तथा कृतशक्तिः कृतपौरुषो गुरुत्वाल्लोहभाराद्गौरववत्त्वाच्चावाङ्मुखो नम्रमुखः । अत एवात्मपौरुषेण जनितव्रीड इव स्थित इत्युत्प्रेक्षा ।
स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्त[२]मां दधानः। |
स इति ॥ उत्तमां स्वरुचं स्वकान्तिं कीर्तिमिव दधान इत्युत्प्रेक्षा । किं च । विचिन्त्य सर्वथा ग्राह्योऽयमिति विमृष्य समुद्धरता सेनार्जुनेनोच्चैः स्ववार्तं स्वपाटवम् । 'वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्' इति यादवः । अनुयुक्तः पृष्ट इव स्थित इत्युत्प्रेक्षा । आदरात्तथा प्रतीयत इत्यर्थः । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । स बाणो विलोचनाभ्यां नयनाभ्यां कृत्वा भृशं परिरेभे न्वालिङ्गितः किमित्युत्प्रेक्षा । तेनात्यादरेण दृष्ट इत्यर्थः ॥
तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् । |
तत्रेति ॥ तत्र प्रदेशे महाभुजोऽर्जुनः कुसुमचापविद्विषः स्मरारेः शासनं वक्ष्यमाणमादेशं संनिकाशयितुं प्रकाशयितुम् । निवेदयितुमिति यावत् । अग्रतः स्थित कार्मुकभृतं वनेचरं सहसा झटिति पश्यति स्म । इतः प्रभृति रथोद्धतावृत्तम्- 'रो नराविह रथोद्धता लगौ' इति लक्षणात् ॥