पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
किरातार्जुनीये


संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः।
कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥४७॥

  संततमित्यादि ॥ सूरयो विद्वांसोऽस्यात्मत्स्वामिनः संबन्धिभिर्यैश्चरितैः करणभूतैः संततं सततमुत्सुकाः सोत्कण्ठाः सन्तो निशमयन्तश्चरितानि शृण्वन्तो मुदं प्रयान्ति । अत्र चरितानां मुत्प्राप्तौ शाब्दं करणत्वम् । अर्थान्निशमनकर्मत्वमिति विवेकः । तानि चरितानि हसितेऽपि परिहासेऽपि कीर्तितानि परैरुच्चारितानि सन्ति यं मानिनं व्रीडयन्ति। मानित्वाद्व्रीडा न तु चरितदोषात् । तेषामलंकाररूपत्वादिति भावः ॥

अन्यदोषमिव सः स्वकं गुणं ख्यापयेत्कथमधृष्टताजडः।
उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुमर्थिताम् ॥ ४८ ॥

  अन्येति । अधृष्टतया विकत्थनेन शालीनतया जडः स्तब्धः । अविकस्थन इत्यर्थः। सोऽस्मत्स्वाम्यन्यदोषं परावरगुणमिव स्वकं स्वकीयं गुणं कथं ख्यापयेत्प्रकटयेत् । 'आत्मप्रशंसां परगर्हामिव वर्जयेत्' इति स्मरणादिति भावः । तथापि कार्यवत्तया । कार्यार्थितयेत्यर्थः । स स्वगुण उच्यते खलु । कार्यार्थिनः कुतो गर्व इति भावः । निर्विण्ण इवाह-धिगिति । विभिन्नबुधसेतुमतिकान्तसुजनमर्यादामर्थितां याचनां धिक् । निन्दामीत्यर्थः । यदयमपीत्थं विकथयितुं प्रवृत्त इति भावः । 'धिङ्तिर्भर्त्सन- निन्दयोः' इत्यमरः । 'अभिसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते' इति द्वितीया ।।

  संप्रति स्वकृतोपकारं दर्शयति-

दुर्वचं तदथ मा स्म भून्मृगस्त्वय्यसौ यदकरिष्यदोजसा ।
नैनमाशु यदि वाहिनीपतिःप्रत्यपत्स्यत शितेन पत्रिणा ॥४९॥

  दुर्वचमिति ॥ वाहिनीपतिः सेनापतिरस्मत्स्वामी शितेन पत्रिणा शरेणैनं मृगमाशु न प्रत्यपत्स्यत यदि नाभियुञ्जीत चेदसौ मृग ओजसा बलेन त्वयि विषये यदकरिष्यद्यदनिष्टं कुर्यात्तद्दुर्वचं दुर्वाच्यममङ्गलतया वक्तुं न शक्यते । तदनिष्टमथानन्तरमपि मा स्म भूदिति सौहार्दकथनम् । तदुपेक्षणे स मृगस्त्वां हन्यादिति भावः । 'लिङ्निमित्ते लृङ् क्रियातिपत्तौ' इति करोतेः पद्यतेश्च लृङ् ॥

  ननु मयैव हतो मृगो न तु सेनापतिना । तत्राह-

को न्विमं हरितुरङ्गमायुधस्थेयसीं दधतमङ्गसंहतिम् ।
वेगवत्तरमृते चमूपतेर्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥५०॥

  क इति ॥हरितुरङ्गमायुधमिद्रायुधं तद्वत्स्थेयसीं स्थिरतराम् । वज्रकठिनामित्यर्थः । स्थिरशब्दादीयसुन् । 'प्रियस्थिर-' इत्यादिना स्थादेशः । अङ्गसंहतिमवयवसंघातं दधतं धारयन्तं वेगवत्तरं दुर्वारवेगमिमं दंष्ट्रिणं वराहं चमूपतेः किरातवाहिनीपतेरृते चमूपतिं विना । 'अन्यारात्-' इत्यादिना पञ्चमी । को नु को वा शरेण । एकेनेति भावः । हन्तुमर्हति । न कोऽपीत्यर्थः ।।