अस्तु स इव मृगस्य हन्ता । ततः किमित्यत आह-
मित्रमिष्टमुपकारि संशये मेदि[१]नीपतिरयं तथा च ते । |
मित्रमिति ॥ तथा च । तस्यैव मृगहन्तृत्वे सतीत्यर्थः । अयं मेदिनीपतिः किरात- भूपतिस्ते तव संशये प्राणसंकट उपकार्युपकारकारकमिष्टं मित्रम्। ततोऽपि किं तत्राह- तमिति । तं मित्रभूतं विरोध्य सज्जनैकवसतिर्भवादृशसुजनमात्राधारा कृतज्ञतोपकारवेदित्वं मा निरासि न निराक्रियतां भवता । अन्यथा जगति कृतज्ञतास्तमियात्, कृतघ्नता च ते भवेदित्यर्थः । अत्यतेः कर्मण्याशिषि माङि लुङ् ॥
ननु सर्वस्यार्थमूलत्वात्स एवास्तु । किं मित्रेणेत्याशङ्क्य मित्रस्य-सर्वाधिक्यं युग्मेनाह-
लभ्यमेकसुकृतेन दुर्लभा रक्षितारम[३]सुरक्ष्यभूतयः। |
लभ्यमिति ॥ जिगीषतां जेतुमिच्छताम् । जयतेः सन्नन्ताच्छतृप्रत्ययः । दुर्लभाः कृच्छ्रेणापि लब्धुमशक्यास्तथाप्यसुरक्ष्यभूतयो रक्षितुमशक्यमहिमानः । तथापि नित्यं रक्षणादिक्लेशावहाश्चेति भावः । अन्तविरसाः। गत्वर्य इत्यर्थः । लभ्यन्त इति लाभा अर्थास्तेषां संपद:। एकसुकृतेनैकोपकारेण लभ्यं सुलभं न तु दुर्लभं रक्षितारं न तु रक्ष्यं स्वन्तं शुभावसानं न त्वन्तविरसं मित्रलाभमनु मित्रलाभाद्धीनाः । निकृष्टा इत्यर्थः।'हीने' इत्यनोः कर्मप्रवचनीयसंज्ञा । तद्योगे द्वितीया । अत्रोपमेयस्य मित्रलाभस्य लाभान्तरं प्रत्याधिक्याभिधानाद्व्यतिरेकालंकारः॥
चञ्चलं वसु नितान्तमु[४]न्नता मेदिनीम[५]पि हरन्त्यरातयः । |
चञ्चलमिति ॥ किं च । वसु धनं नितान्तं चञ्चलं मेदिनीमप्युन्नताः प्रबला अरातयो हरन्ति । मित्रं तु न तथेत्याह-भूधर इति । भूधरवत्स्थिरमुपेयमन्विष्य गन्तव्यमप्यागतं स्वतःप्राप्तमापि महीपतिम् । सर्वधुरीणमित्यर्थः । सुहृदं मित्रं मावमंस्त मावज्ञासीत्। भवानिति शेषः । अन्यश्लोकगतो वा भवच्छब्दो विभक्तिविपरिणामेनात्र द्रष्टव्यः। अन्यथा मध्यमपुरुषः स्यात् । मन्यतेः कर्तरि माङि लुङ्। अलंकारस्तु व्यतिरेक एव । भूधरस्थिरमित्युपमासंगतिसंकरः ॥
ननु मुमुक्षोः किं मित्रसंग्रहेणेत्यत्राह-
जेतुमेव भवता तपस्यते नायुधानि दधते मुमुक्षवः । |