शक्तिरिति ॥ अर्थपतिषु विषये शक्तिः सामर्थ्यं स्वयंग्रहं स्वाम्यनुज्ञां विना ग्रहणं
कारयति । यद्वा निरत्ययमपराधेऽप्यविकारि निर्बाधं प्रेम कर्तृ स्वयंग्रहं कारयति ।
प्रबलः प्रियो वा परस्य धनं स्वयं गृह्णातीत्यर्थः। अन्यथा दोषमाह- इदं पूर्वोक्तं
कारणद्वयं निरस्यतस्त्यजतः । पुंस इति शेषः । अधिकबले प्रबले विषये प्रार्थना तद्धन-
जिघृक्षा विपत्फलानर्थफलका । अशक्तस्याप्रियस्य सतः प्रबलधनग्रहणाशा फणिशिरो-
मणिग्रहणसाहसवदनर्थाय कल्पत इत्यर्थः ।।
ननु शस्त्रार्थसंपत्त्या शक्तत्वाभिधानः । तत्राह-
अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । |
अस्त्रवेदमिति ॥ इह जगति तापसेषु तपस्विनां मध्ये । 'यतश्च निर्धारणम्' इति सप्तमी । जमदग्नेरपत्यं पुमाञ्जामदग्न्य: । 'गर्गादिभ्यो यञ्' । तमपहाय । परशुरामं विनेत्यर्थः । अस्त्रवेदं तत्त्वतोऽधिगम्य । भुजवीर्येण शालत इति भुजवीर्यशालिनः । उभयसंपन्नस्येत्यर्थः । शालनक्रियापेक्षया समानकर्तृकत्वात्क्त्वानिर्देशः। कस्य वायुधं चरितः प्राप्तोऽर्थो येन तच्चरितार्थं सार्थकं गीयते । न कस्यापीत्यर्थः । अतस्तवापि तापसत्वादकिंचित्करस्य तेन सह सख्यमेव मुख्यमिति भाव: ॥
ननु युष्मन्मृगवधशरहरणाभ्यां द्रोहिणो मम तेन कथं सख्यं स्यादित्याशङ्क्य सत्यं तथापि तावन्मृगवधापराधः क्षमिष्यत इत्याह-
अभ्यघानि मु[१]निचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः। |
अभ्यघानीति ॥ त्वया मुनिचापलात्। ब्राह्मणचापल्यादित्यर्थः । क्षितिपतेरस्मत्स्वामिनः। परिगृह्यत इति परिग्रहः । तेन स्वीकृत इत्यर्थः । 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः' इति विश्वः । यन्मृगोऽभ्यघान्यभिहत हति । हन्तेः कर्मणि लुङ् । तद्धननमयमस्मत्स्वाम्यक्षमिष्ट सोढवानेव । तथा हि । प्रमाद्यताम् । अविमृष्यकारि- णामित्यर्थः । दोषमपराधमज्ञताज्ञानिता संवृणोत्याच्छादयति । नाज्ञस्यापराधो गण्यत इत्यर्थः ॥
अथ सुहद्भावेन हितमुपदिशति--
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् । |
जन्मेति । जन्म सत्कुले प्रसूतिः, वेषो जटावल्कलादिः, तपो नियमः, तेषां वि-