विरोधिनीं विरुद्धाममूमेवंविधामपक्रियामपकारम् । पुनः । इतःपरमित्यर्थः । मा कृथा
मा कुरु । करोतेः कर्तरि माङि लुङ् । 'वयोवृद्ध्यर्थवाग्वेषश्रुताभिनयकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्मामशठाम् तथा ॥ इति स्मरणात् । उक्तवैपरीत्ये दोषमाह-
आपदिति । हि यस्मात् । अपथे वर्तमानं दुर्मतिम् । पुरुषमिति शेषः । उभौ लोकौ
दूषयति हन्तीत्युभयलोकदूषणी । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः। आपदेति
प्राप्नोति । समासविषय उभशब्दस्थाने उभयशब्दप्रयोग एव साधुः । यदाह कैयट:----
'उभादुदात्तो नित्यमिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय उभशब्दस्य प्रयोगो
मा भूत् । उभयशब्दस्यैव रूपं यथा स्यादित्युभयत्रेत्यादि भवति' इति ॥
यदुक्तम् 'अभ्यधानि' इति तदेव स्फुटयति-
यष्टुमिच्छसि पितृन्न सां[१]प्रतं सं[२]वृतोऽर्चिचयिषुर्दिवौकसः । |
यष्टुमिति ॥ सांप्रतं संप्रति । 'संप्रतीदानीमधुना सांप्रतं तथा' इत्यमरः । पितृन्कव्य- वाडादीन्यष्टुमर्चयितुं नेच्छसि । यतः संवृत एकान्ते स्थितः। तथा दिवौकसो देवा- नर्चिचयिषुरप्यर्चयितुमिच्छुरपि नासि । अतो न पित्रर्थेयं हिंसा, नापि देवतार्था । तदाराधने तद्विहितत्वादिति भावः। अथ 'सर्वत आत्मानं गोपायीत' इति श्रुतेरात्म- रक्षार्थमिति चेन्नेत्याह-दातुमिति । अङ्ग हे, पदवीं मार्गं दातुमेव । न तु हन्तुम् । मुनित्वादिति भावः । क्षभोऽपि योग्यः सन्नपि । किं किमर्थं मृगे विशिखं न्यवीविशो निवेशितवान् । विशतेर्ण्यन्ताल्लुङ् । अभिधावतो मृगादपसरणेनैवात्मरक्षणे कर्तव्ये यवधीस्तच्चापलमेव । 'न हिंस्यात्सर्वाभूतानि' इति श्रुतिनिषेधादिति भावः ॥
किं बहुना परमार्थः श्रूयतामित्याह-
सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा[३]सहिष्यते । |
सज्जन इति ॥ सज्जनोऽसि । अतएव चापलं चपलस्य कर्म विजहीहि त्यज । जहा- तेर्लोट् । 'आ च हौ' इतीकारः । सर्वदा कइव वा को वा सहिष्यते। इवशब्दो वाक्यालंकारे । वाशब्दोऽवधारणे । असहने कारणमाह-वारिधीनिति । अनिभृताश्चपलाः पुनः पुनरकार्यकारिणो गुरून्धैर्ययुक्तानपि । अन्यत्र विशालानपि । युगान्तवायवः प्रलयपवना वारिधीनिव समुद्रानिव क्षोभयन्ति । उपमानुप्राणितोऽयमर्थान्तरन्यासः॥
नन्वयं किरातः क्षुभितः किं करिष्यति तत्राह-
अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः । |