पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
किरातार्जुनीये


  अस्त्रेति ॥ अयं महीपतिरस्त्रवेदवित् । निग्रहानुग्रहसमर्थ इति भावः। अतः पर्वते भवः पर्वतीयः । 'पर्वताच्च' इति छप्रत्ययः । इति हेतोर्मावजीगणः । वनेचरबुद्ध्या मावज्ञासीरित्यर्थः । गणयतेर्माङि लुङ् । 'ई च गणः' इतीकारः । नन्वीदशश्चेत्किमर्थमिह वने वसति तत्राह-~-गोपितुमिति । मरुत्वतेन्द्रेणेमां भुवं गोपितुं रक्षितुम् । 'आयादय आर्धधातुके वा' इति विकल्पात् 'गुपूधूप--' इत्यादिना नायप्रत्ययः। अनुनीय प्रार्थ्य शैलवासं लम्भितः प्रापितः । 'ण्यन्ते कर्तुश्च कर्मणः' इति वचनादणि कर्तृकर्मणि क्तः। 'गतिबुद्धि-' इत्यादिनाणि कर्तुः कर्मत्वम् ॥

  उपसंहरति-

तत्तितिक्षितमिदं मया मुनेरित्यवोचत वचश्चमूपतिः।
बाणमत्रभवते निजं दिशन्ना[१]प्नुहि त्वमपि सर्वसंपदः॥६८॥

  तदिति ॥ तत्तस्मान्मुनिचापलान्मुनेः संबन्धीदं मृगवधरूपमागो मया तितिक्षितं सोढमिति वचश्चमूपतिरवोचत । शरद्रोहस्य प्रत्यर्पणमेव प्रतीकार इत्याह-अत्रभवते पूज्याय स्वामिने । अत्रभवान्व्याख्यातः । निजं बाणं तदीयमेव शरं दिशन्प्रत्यर्पयं- स्त्वमपि सर्वसंपद आप्नुहि । सख्येनेति भावः ॥

  ननु मह्यमेतत्सख्यमेव न रोचते, किं पुनस्तन्मूलाः संपदस्तत्राह-

आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विर[२]मन्ति चापदः ।
इत्यनेकफलभाजि मा स्म भूदर्थिता कथमिवार्यसंगमे ॥६९॥

  आत्मनीनमिति ॥ आत्मने हितमात्मनीनम् । 'आत्मन्विश्वजनभोगोत्तरपदात्खः। उपतिष्ठते संगच्छते । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु' इति वक्तव्यादात्म- नेपदम् । गुणा विनयादयः संभवन्त्यापदश्च विरमन्ति । 'व्याङ्परिभ्यो रमः' इति परस्मैपदम् । इत्यनेकफलभाजि नानाफलोत्पादक आर्यसंगमे साधुसंगतावर्थितापेक्षा कथमिव मा स्म भूत् । सर्वदा भवत्येव ॥

  न चायं दूरे वर्तत इत्याह----

दृश्यतामयमनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः ।
साहिवीचिरिव सिन्धुरुहतो भूपतिः समयसेतुवारितः ॥७०॥

  दृश्यतामिति ॥ तिग्महेतिभिस्तीक्ष्णायुधाभिः । 'हेतिर्ज्वालास्त्रसूर्यांशुषु' इति हेमचन्द्रः। पृतनाभिर्वाहिनीभिः । 'वाहिनी पृतना चमूः' इत्यमरः। अन्वितो भूपतिः साहय: ससर्पा वीचयो यस्य स सिन्धुः समुद्र इवोद्धतः किंतु समयो मर्यादा सेतुरिव स समयसेतुस्तेन वारितः सन् । हस्तेन निर्दिशन्नाह-अयमनोकहान्तरे दुमान्तर्धाने। वर्तत इति शेषः। दृश्यताम् । 'अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः' इत्यमरः ॥


  1. 'प्राप्नुहि' इति पाठः
  2. 'उपरमन्ति' इति पाठः