पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
किरातार्जुनीये

नुग्रहसमर्थस्येत्यर्थः । पुंस इति शेषः । देहिनो जन्तवः स्वयमेव वश्या वशंगता भवन्ति ।'वशं गतः' इति यत्प्रत्ययः । अतस्त्वया कोपिना भवितव्यमित्यर्थः।व्यतिरेके त्वनिष्टमाचष्टे--अमर्षशून्येन निःकोपेन जन्तुना । कन्यया शोक इतिवत् ।'हेतौः' इति तृतीया। हृदयस्य कर्म हार्दं स्नेहः । ‘प्रेम ना प्रियता हार्दं प्रेम स्नेह:' इत्यमरः। युवादित्वादण् । 'हृदयस्य हृल्लेखपदण्लासेषुः' इति हृदादेशः । जातहार्देन जातस्नेहेन सता जनस्यादरो न। विद्विषा द्विषता च सतादरो न । अमर्षहीनस्य रागद्वेषाव- किम्चित्करत्वादगण्यावित्यर्थः । अथवा विद्विषा सता दरो भयं न । 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । एतस्मिन्नेव प्रयोगे संधिवशाद्विधा पदच्छेदः । पुंवाक्येषु न दोषः ।। अतः स्थाने कोपः कार्यस्त्याज्यस्त्वस्थाने कोप इति भावः ॥

परिभ्रमंल्लोहित[१]चन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥३४॥

 परिभ्रमन्निति ॥ लोहितचन्दनोचित उचितलोहितचन्दनः । ‘वाहितग्र्यादिषु-' इति साधुः । अभ्यस्तरक्तचन्दन इत्यर्थः । 'अभ्यस्तेत्युचितं न्याय्यम्' इति यादवः । महारथो रथचारी । उभयत्रापि प्रागिति शेषः । अद्य तु रेणुरूषितो धुलिच्छुरितः । पादाभ्यामतति गच्छतीति पदातिः पादचारी । 'अज्यतिभ्यां च' इत्यनुवृत्तौ ‘पादे च' इत्यौणादिक इण्प्रत्ययः । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः।अन्तर्गिरि गिरिष्वन्तः। विभक्त्यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य' इति विकल्पात्समासा- न्ताभावः । परिभ्रमन्नयं वृकोदरो भीमः । सत्यधनस्येति सोल्लुण्ठनवचनम् । अद्यापि सत्यमेव रक्ष्यते, न तु भ्रातर इति भावः । तवेति शेषः । मानसं नो दुनोति।कच्चिन्न परितापयति । 'कञ्चित्कामप्रवेदने' इत्यमरः । स्वाभिप्रायाविष्करणं कामप्रवेदनम् ॥

विजित्य यः प्राज्यमयच्छदुत्तरान्कुनकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहरन्करोति मन्युं न कथं धनंजयः ॥३५॥

 विजित्येति ॥ वासव इन्द्र उपमा उपमानं यस्य स वासवोपम इन्द्रतुल्यो यो धनंजय: । उत्तरान्कुरून्मेरोरुत्तरान्मानुषान्देशविशेषान्विजित्य प्राज्यं प्रभूतम् ।'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः । कुप्यादन्यदकुप्यं हेमरूप्यात्मकम् । 'स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृतकृते । ताभ्यां यदन्यत्तत्कुप्यम्' इत्यमरः । वसु धनमयच्छद्दत्तवान् । पाघ्रा-' इत्यादिना दाणो यच्छादेशः । स धनं जयतीति धनंजयोऽर्जुनः । संज्ञायां भृतृवृजि-'इत्यादिना ख़च्प्रत्ययः। 'अरुर्द्विषत्-' इत्यादिना मुमागमः । अधुना- स्मिन्काले। अधुना' इति निपातनात्साधुः । तव वल्कवासाँस्याहरन्कथं तव मन्युं क्रोधं दुःखं वा न करोति ॥


  1. चन्दनान्वितः' इति पाठः,