ताया व्यवस्थितायां सर्वमनोरमाः सर्वेषां शब्दार्थरुचीनां पुंसां मनोरमा गिरः सुदुर्लभाः।
त्वद्गिरस्तु सर्वमनोरमा उक्तसर्वगुणसंपत्त्येति भावः ॥
समस्य संपादयता गुणैरिमां त्वया समारोपितभारं भारतीम् । |
समस्येति ॥ धुरं वहतीति धुर्यस्तत्संबोधने हे धुर्य हे कार्यनिर्वाहक । इति यत्प्रत्ययः । अत एव समारोपितभार स्वामिना निहितसंध्यादिकार्यभार हे। तदाह मनुः–'दूते संधिविपर्ययौ' इति । इमां शान्तताविनययोगीत्यादिकां भारतीं वाचं गुणैर्विविक्तवर्णत्वादिभिः समस्य संयोज्य प्रगल्भं निर्भीकं यथा तथा संपादयता रचयता । व्याहरतेत्यर्थः । त्वया वनेचरेणापीत्यर्थः । सता । अपिशब्दो-विरोधद्योतनार्थम् । आत्मा स्वयं वाग्मिनां वाचोयुक्तिपटूनाम्।'वाचौयुक्तिपटुर्वाग्मी' इत्यमरः । 'वाचो ग्मिनिः' इति मत्वर्थीयो ग्मिनिप्रत्ययः । धुर्यग्नेऽधिरोपितः । स्थापित इत्यर्थः । 'रुहः पोऽन्यतरस्याम्' इति पकारः । अत्र मनु:-'वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञ: प्रशस्यते' इति ॥
वाग्मितामेवाह--
प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । |
प्रयुज्येति ॥ शान्तताविनययोगीत्यादिना सामसान्त्वम् ॥ 'सामसान्त्वमुभे समे' इत्यमरः । प्रयुज्य नियुज्य विलोभनं प्रलोभनम् 'मित्रमिष्टम्' इत्यादिनाचरितं संपादितम्। तथा धियो बुद्धेर्विभेदाय व्यामोहनार्थम् 'शक्तिरर्थपतिषु:' इत्यादिना भयं प्रदर्शितम्। किं च । शिलीमुखार्थिना । न तु न्यायार्थिनेति भावः । त्वयेति शेषः। 'नाभियोक्तुम् । इत्यादिना तथाभियुक्तं कथितं यथेतरन्न्यायादन्यत् । अन्याय्यमित्यर्थः । न्याय्यं न्याया- दनपेतमिवावभासत इत्युपमा । अनेन वाग्मिनामग्रसरोऽसीति भावः ॥
ततः किमत आह-
विरोधि सिद्धेरिति कर्तुमुद्यतः स वारितः किं भवता न भूपतिः । |
विरोधीति ॥ किंतु सिद्धेः फलस्य विरोधि विघातकमितीदमस्मदास्कन्दनरूपं कर्म कर्तुमुद्यतःस भूपतिर्महीपतिर्भवता । धुर्येणेति भावः । किं न वारितो निवर्तितः। निवारणे हेतुमाह-भूमिमिच्छतेहामुत्र च श्रेयोर्थिना सहचरितावर्थनाशौ स्वार्थानर्थौ यस्य तेन सहार्थनाशेन । समानसुखदुःखेनेत्यर्थः । अनुजीविना भृत्येन नृपः स्वामी हिते नियोज्यो नियम्यः खलु । अन्यथा स्वामिद्रोहपातकी श्रेयसो भ्रष्टः स्वादिति भाव:॥
- ↑ 'प्रयुक्तम्' इति पाठः