तर्हि नो बाणः क्व गतः, किमत्र वा न्याय्यं तत्राह-
ध्रुवं प्रणाशः प्रहितस्य पत्रिणः शिलोच्चये तस्य वि[१]मार्गणं नयः। |
ध्रुवमिति ॥ प्रहितस्य प्रयुक्तस्य पत्रिणः शरस्य प्रणाशोऽदर्शनं ध्रुवं निश्चितम् । प्रहितश्चेदिति भावः। तस्य नष्टस्य पत्रिणः शिलोच्चये शैले। 'अद्रिगोत्रगिरिग्रावाचल- शैलशिलोच्चयाः' इत्यमरः। विमार्गणमन्वेषणं नयो न्याय्यः । 'अन्वेषणं विचयनं मार्गणं मृगणा मृगः' इत्यमरः । अत्र विषये आर्यजनातिलङ्घनं सज्जनव्यतिक्रमो न युक्तम् । हि यस्मात्कारणात्सतामतिक्रमोऽपायमनर्थं दिशति ददाति ॥
यदुक्तम् 'हर्तुमर्हसि' इति तत्रोत्तरमाह-
अतीतसंख्या विहिता ममाग्निना शिलामुखाःखाण्डवमत्तुमिच्छता |
अतीतेति ॥ खाण्डवमिन्द्रवनमत्तुं भक्षयितुमिच्छताग्निना ममातीतसंख्या असंख्याः शिलीमुखाः शरा विहिता दत्ताः । खाण्डवदाहेऽक्षयतूणीरपानमुक्तं भारते । अतो- ऽमरसायकेष्वप्यनादृतस्यादररहितस्य । भावे क्तः । ततो नञा बहुव्रीहिः । मम कथं शैलजनाशुगे किरातबाणे धृतिरास्था स्थिता । न कथंचिदित्यर्थः । अतो नापहारशङ्का कार्यत्यर्थः॥
यदुक्तम् 'स्मर्यते तनुभृताम्' इत्यादिना समाचारः प्रमाणमिति तत्रोत्तरमाह-
यदि प्रमाणीकृतमार्यचेष्टितं किमि[३]त्यदोषेण तिरस्कृतां वयम् । |
यदीति ॥ आर्यचेष्टितं सच्चरितं प्रमाणीकृतं यदि । साधुत्वेनाङ्गीकृतं यदीत्यर्थः । तर्ह्यदोषेण दोषाभावेऽपि । 'क्वचित्प्रसज्य प्रतिषेधेऽपि नञ्समासः' इति भाष्यकारः । उपलक्षणे तृतीया। वयं किमिति तिरस्कृताः । न युक्तमित्यर्थः । हि यस्मात्परिवा- दगोचरं परनिन्दास्पदमायातपूर्वा सतां वाणी गुणमेव भाषते न दोषम् । अतस्ते मृषा- दोषभाषिणो न सदाचारप्रामाण्यवुद्धिरिति भावः । पूर्वं न यातेत्ययातपूर्वा। सुप्सुपेति समासः। परत्वात्सर्वनाम्नो निष्ठायाः पूर्वनिपातः। 'स्त्रियाः पुंवत्' इत्यादिना पुंवद्भावः पूर्वलिङ्गता च । अर्थान्तरन्यासः ।।
नन्वप्रत्यक्षा परबुद्धिः कथं दुष्टेति निश्चीयते । तत्राह-
गुणापवादेन तदन्यरो[४]पणाद्भृशा[५]धिरूढस्य समञ्जसं जनम् । |