पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
चतुर्दशः सर्गः।


  गुणेति । गुणापवादेन विद्यमानगुणापह्नवेन तदन्यरोपणात्तस्माद्गुणादन्यस्य दोषस्याविद्यमानस्यैवारोपणाच्च समञ्जसं जनं सुजनं भृशाधिरूढस्यातिमात्रमाक्रम्य स्थितस्य अभिक्षिप्तस्येत्यर्थः । कर्तरि क्तः। निगृहतो हृदयं संवृण्वतोऽप्यसाधोरनार्यस्य हृदयं कर्म स्फुरन्विलसन्वागेवासिर्द्धिधा कृत्वा भित्त्वेव विवृणोति । अतिदुष्टया वाचै- वैतत्पूर्विकाया बुद्धेरपि दौष्टयमनुमीयत इति भावः । वागसिरित्यत्र रूपकं द्विधाकरण- रूपकसाधकम् ॥

  यदुक्तम् 'अभ्यधानि' इति, तत्रोत्तरमाह-


वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान्प्रसभेन तस्य ते ।
प्रहीयतामत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥१३॥

  वनेति ॥ वनाश्रया अत एव मृगाः कस्य परिग्रहाः । न कस्यापीत्यर्थः । किंतु यस्तान्मृगान्प्रसभेन बलात्कारेण शृणाति हिनस्ति । 'शॄ हिंसायाम्' इति धातोर्लट् । ते मृगास्तस्य हन्तुः परिग्रहाः परिग्राह्याः । हन्ता चाहमेवेति भावः । ननु ममायमित्य- भिमानान्नृपस्य स्वत्वमित्याशंक्याह:-अत्रेति । अत्र मृगे नृपेण मानिता ममेत्यभिमानः प्रहीयतां त्यज्यताम्। कुत इत्याशङ्ग्याभिमानमात्रेण स्वत्वाभावादित्याह-नेति। मानिता चास्ति । श्रियः स्वानि च भवन्तीति न । किंतु न भवन्त्येव । सत्यामभि- मानितायामित्यर्थः । अभिमानमात्रेण स्वत्वेऽतिप्रसङ्गादिति भावः ॥

  'यष्टुमिच्छसि पितॄन्' इत्यादिना यन्निष्कारणमवधीरित्युपालम्भि तत्रोत्तरमाह-

न वर्त्म कस्मैचिदपि प्रदीयतामिति व्रतं मे विहितं महर्षिणा ।
जिघांसुरस्मान्निहतो मया मृ [१] गो व्रताभिरक्षा हि सतामलंक्रिया। ॥१४॥

  नेति ॥ कस्मैचिदपि वर्त्म न प्रदीयतामित्येवं व्रतं महर्षिणा व्यासेन मे मह्यं विहितम्। उपदिष्टमित्यर्थः। अस्मात्कारणाज्जिघांसुर्हन्तुमिच्छुरापतन्नभिधावन्नयं मृगो मया निहतः । हि यस्माद्व्रताभिरक्षा सतामलंक्रिया । न तु दोषः । अत आत्मरक्षणार्थमस्य वधः। न निष्कारणमित्यर्थः॥

  'दुर्वचं तत्' इत्यादिना यत्संजातं बन्धुत्वमुक्तं तत्राचष्टे--

मृगान्विनिघ्नन्मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः।
कृ[२]पेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः॥१५॥

  मृगानिति ॥ स्वमात्मैव हेतुस्तेन स्वहेतुना । स्वार्थमित्यर्थः । 'सर्वनाम्नस्तृतीया च' इति तृतीया । मृगान्विनिघ्नन्प्रहरन् । मृगान्यातीति मृगयुर्व्याध:। 'मृगयुर्व्याधश्च' इत्यौणादिको युप्रत्ययान्तो निपातः । 'व्याधो मृगवधाजीवी मृगयुर्लुब्धकोऽपि सः' इत्यमरः । तप इच्छतां तपस्विनां कथं कृतोपकारः । न कथंचिदित्यर्थः । अथ कृपेति


  1. 'अप्ययम्','तपन्' इति पाठौ
  2. 'तथेति' इति पाठः