चेत् । व्याधस्यापीति शेषः । अस्तु । किं शुष्ककलहेनेति भावः। परंतु यदुक्तम्
'निघ्नतः परनिवर्हितम्' इत्यादिना तस्य प्रथमप्रहर्तृत्वं तदयुक्तमित्याह-मृगःक्षणात्क्षतः।
आवाभ्यां युगपदेव विद्ध इत्यर्थः । एवं सत्यनेन नृपेणैव पूर्वं हतो मया तु नेत्यत्र का
गतिः किं प्रमाणम् ।पौर्वापर्यस्य दुर्लक्ष्यत्वादिति भावः। तथा च यदुक्तम् 'व्रीडितव्यम्'
इत्युपालम्भस्तस्यैव किं न स्यादिति भावः ॥
'पूर्व कृपेति चेदस्तु' इत्युक्तम् । संप्रति तदप्यसहमान आह--
अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतामकृत्रिमा। |
अनायुध इति ॥ अनायुधे निरायुधे सत्त्वेन केनचित्प्राणिना जिघांसिते हन्तुमिष्टे। हन्तेः सन्न्तात्कर्मणि क्तः मुनौ विषये कृपेति वृत्तिर्व्यवहारो महतां महात्मनाम- कृत्रिमाकपटा । सह ज्यया सज्य: सायको यस्मिंस्तच्छरासनं धनुर्विभ्रति दधति भयि स नृपः कथं कृतानुकम्पो मया प्रतीयते ज्ञायते । इणः कर्मणि लट् । अक्षमे कृपा विहिता । न तु क्षम इत्यर्थः ॥
अथ कृपामभ्युपगम्याह-
अथो शरस्तेन मदर्थमुज्झितः फलं च तस्य प्रतिकायसाधनम् । |
अथो इति ॥ अथो प्रश्ने । 'मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ' इत्यमरः । तेन नृपेण मदर्थं यथा तथा । अर्थेन सह नित्यसमासः । शर उज्झितस्त्यक्तस्तस्योज्झितस्य फलं च प्रतिकायस्य प्रतिपक्षस्य साधनं वधः। 'साधनं निर्वृतौ मेढ़े सैन्ये सिद्धौ वधे गतौ' इति विश्वः । अविक्षतेऽखण्डिते तत्र तस्मिन्फले मयात्मसात्कृते स्वाधीनीकृते सति । 'तदधीनवचने' इति सातिप्रत्ययः । चमूपतेरधिका कृतार्थता साफल्यं ननु खलु । स्वायुधस्य परत्राणशत्रुवधपात्रप्रतिपादनायैकहेलया सिद्धेरित्यर्थः । तथाप्ययं शरलोभ इति कृपालुताया मूलान्यपि निकृन्ततीति भावः ॥
'मार्गणैरथ तव प्रयोजनम्' इत्यादिना यदुक्तं तन्निराचष्टे-
यदात्थ कामं भवता स याच्यतामिति क्षमं नैतद[१]नल्पचेतसाम् । |
यदिति ॥ स नृपः कामं भवता याच्यतामिति यदात्थ । मामिति शेषः। एतदनल्प- चेतसां मनस्विनां न क्षमं न युक्तम् । कुत्तः। प्रसह्य बलादाहरणैषिणामाहर्तुमिच्छूनाम्। 'क्षत्रियस्य विजितम्' इति स्मरणादिति भावः। परावनत्या याच्ञादैन्येन मलिनीकृताः श्रियः कथं प्रियाः। न कथंचिदित्यर्थः ॥
- ↑ 'अनन्यचेतसाम्' इति पाठः