पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
किरातार्जुनीये


निशातरौद्रेषु वि[१]कासतां गतैः प्रदीपयद्भिः ककुभामिवान्तरम् ।
वनेसदा हेतिषु भिन्नवि[२]ग्रहैर्विपुस्फुरे र [३] श्मिमतो मरीचिभिः ॥३०॥

  निशातेति ॥ निशातास्तीक्ष्णा अतएव रौद्रा भीषणांश्च ये तेषु निशातरौद्रेषु । विशेष्यविशेषणयोरन्यतरविशेष्यत्वविवक्षायामिष्टत्वाद्विशेषणसमासः । वने सीदन्तीति वनेसदां वनेचराणाम् । 'सत्सूद्विष-'इत्यादिना क्विप् । 'तत्पुरुषे कृति बहुलम्' इत्य- लुक् । हेतिष्वायुधेषु।'हेतिः शस्त्रेऽपि पुंस्त्रियोः' इति केशवः । भिन्नविग्रहै: संक्रान्त- मूर्तिभिरतं एव विकासतां विसृत्वरतां गतैरत एव ककुभां दिशामन्तरमवकाशं प्रदी- पयद्भिः प्रज्वालयद्भिरिव स्थितैरित्युत्प्रेक्षा । रश्मिमतः सूर्यस्य । 'मादुपधायाश्च मतो- र्वोऽयवादिभ्यः' इति मतुपो मकारस्य न वकारः। मरीचिभिः करैः । 'भानुः करो- मरीचिः स्त्रीपुंसयोः' इत्यमरः । विपुस्फुरे बभासे । स्फुरतेर्भावे लिट् ॥

उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।
वितत्य पक्षद्वयमायतं बभौ विभुर्गुणानामुपरीव मध्यगः ॥३१॥

  उदूढेति ॥ उदूढेनोन्नतेन वक्षसा स्थगितमाच्छादितमेकमेकतरं दिङ्मुखं येन सः। विकृष्टमाकृष्टमत एव विस्फारितं निघर्वेषितं चापमण्डलं येन स विभुः शिवः। आयतं विस्तृतं पक्षद्वयं पार्श्वद्वयं वितत्य स्वमहिम्ना व्याप्य । 'पक्षः साध्यगरुत्पार्श्वसहाय- बलभित्तिषु' इति वैजयन्ती । गुणानां मध्यगो मध्यस्थोऽप्युपरि स्थित इव बभौ । सर्वोन्नतत्वात्तथा लक्षित इत्यर्थः ॥

सु[४]गेषु दुर्गेषु च तुल्यविकमैर्जवादहंपूर्विकया यियासुभिः ।
गणैरविच्छेदनिरुद्धमाबभौ वनं निरुच्छ्वासमिवाकुलाकुलम् ॥३२॥

  सुगेष्विति ॥ सुखेन दुःखेन च गच्छन्त्येष्विति सुगेषु सुगमेषु दुर्गेषु दुर्गमेषु च । समविषमदेशेष्वित्यर्थः । सुदुरोरधिकरणार्थे डो वक्तव्यः। अत एव टिलोपः । तुल्य- विक्रमैर्लाघवात्समसंचारैर्जवाद्वेगादहंपूर्विकयाहमहमिकया । अहंपूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम्' इत्यमरः । यियासुभिर्यातुमिच्छुभिः । यातेः सन्नन्तादुप्रत्ययः । गणैः प्रमथैः । मनोज्ञादित्वाद्बुञ्प्रत्ययः । पृषोदरादित्वाद्वृद्ध्यभावः । अविच्छेदेन निरुद्धमत एवाकुलाकुलमाकुलसकारम् । 'प्रकारे गुणवचनस्य' इति द्विर्भावः । वनं निरुच्छ्वासं निरुद्धप्राणमिवाबभावित्युत्प्रेक्षा ॥

तिरोहितश्वभ्रनिकुञ्जरोधसः समश्नुवानाः सहसातिरिक्तताम् ।
किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥३३॥

  तिरोहितेति ॥ किरातसैन्यैस्तिरोहितानि च्छन्नानि श्वभ्रनिकुञ्जरोधांसि गर्तकुञ्जतटानि यासां ताः। अतएच भुवः प्रदेशाः सहसातिरिक्ततामुत्तानतां समश्नुवाना आप्नु-


  1. 'विकासितां' इति पाठ:
  2. 'संग्रहै:' इति पाठः
  3. 'रश्मिवत्तः' इति पाठः
  4. 'समेषु' इति पाठः