पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
प्रथमः सर्गः ।

वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ ।
कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥३६॥

 वनान्तेति ॥ वनान्तो वनभूमिरेव शय्या तथा कठिनीकृताकृती कठिनीकृतदेहौ । 'आकारो देह आकृतिः' इति वैजयन्ती । विष्वक्समन्तात् । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । कचाचितौ कचव्याप्तौ । विशीर्णकेशावित्यर्थः । अतएवागजौ गिरिसंभवौ गजाविव स्थितावेतौ यमौ युग्मजातौ । माद्रीपुत्रावित्यर्थः । 'यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च' इति विश्वः । विलोकयंस्त्वं कथं धृति- संयमौ संतोषनियमौ । ‘धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषुः' इति विश्वः ।बाधितुं नोत्सहसे न प्रवर्तसे। ‘शकधृष-' इत्यादिना तुमुन् । अहो ते महद्वैर्यमिति भावः ॥

 अथ राज्ञो दुर्दशां दर्शयितुमुपोद्घातमाह । प्रकृतार्थं वर्णयितुमर्थान्तरवर्णनमुपोद्धातः-

इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥३७॥

 इमामिति ॥ इमां वर्तमानाम् । तवेमां तावकीं त्वदीयाम् । 'तस्येदम्' इत्यण्प्रत्यय:। 'तवकममकावेकवचने' इति तावकादेशः धियं त्वदापद्विषयां चित्तवृत्ति- महं न वेद कीदृशी वा न वेद्मि । परबुद्धेरप्रत्यक्षत्वादिति भावः ।'विदो लटो वा' 'इति लटो णलादेशः । न चात्मदृष्टान्तेनापन्नत्वाद्दुःखित्वमनुमातुं शक्यते । धीरादि- ष्वनैकान्तिकत्वादित्याशयेनाह--चित्तवृत्तयो विचित्ररूपा धीराधीराद्यनेकप्रकाराः खलु । किंतु परामुत्कृष्टां भवदापदं विचिन्तयन्त्या भावयन्त्या मम चेतश्चित्तम् । आधयो मनोव्यथाः । 'उपसर्गे घोः किः' इति किप्रत्ययः । प्रसभं प्रसह्य रुजन्ति भजन्ति।'रुजो भङ्गे' इति धातोर्लट्। पश्यतामपि दुःसहा दुःखजननी त्वद्विपत्तिरनुभ- वितारं त्वां न विकरोतीति महच्चित्रमित्यर्थः । चेत इति 'रुजार्थानां भाववचनाना- मज्वरेः' इति षष्ठी न भवति । तत्र शेषाधिकाराच्छेषत्वस्य विवक्षितत्वादिति ।।

 तदापदमेव श्लोकत्रयेणाह-

पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भामधिशय्य स स्थळीं जहासि निद्रामशिवैः शिवारुतैः ॥३८॥

 पुरेति यस्त्वं महाधनं बहुमूल्यं श्रेष्ठम् । 'महाधनं महामूल्ये' इति विश्वः । शयनं शय्यमधिरूढः सन् । स्तुतयो गीतयश्च ता एव मङ्गलानि तैः करणभूतैः पुरा विबोध्यसे । वैतालिकैरिति शेषः । पूर्वं बोधित इत्यर्थः। ‘पुरि लुङ्चास्मे' इति भूतार्थे लट् । स त्वमदभ्रदर्भी बहुकुशाम् । ‘अस्त्री कुशं कुथो दर्भः' इति । अदभ्रं बहुलं बहु' इति चामरः । स्थलीमकृत्रिमर्भूमिम्,जानपद्-' इत्यादिनाकृत्रिमार्थे ङीप् । एतेन दुःसहस्पर्शत्वमुक्तम्। 'अधिशीङ्स्यासां कर्म' इति कर्मत्वम् । अधि-