पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
चतुर्दशः सर्गः।


सूर्यमिव । मनुष्यभावे मनुष्यरूपे स्थितं पुरातनं पुरुषम् । यो बदरीतपोवननिवासी नारायणसहचरो नरो नाम स एवायमित्यर्थः ।।

गुरुक्रियारम्भफलैरलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।
गणाः समासेदुरनीलवाजिनं त[१] पात्यये तोयघना घना इव ॥ ४२ ॥

  गुर्विति ॥ गुरुभिः क्रियारम्भाणां फलैरलंकृतम् । सफलकर्मारम्भमित्यर्थः । जगत्प्र- माथिनो जगद्विजयिनः प्रतापस्य तेजसो गतिं स्थानम् । अतोऽस्य बहूनामेकलक्ष्यत्वं च युज्यत इति संदर्भाभिप्रायः । पूर्वोक्तविशेषणविशिष्टमनीलवाजिनं श्वेताश्वमर्जुनं गणाः प्रमथास्तपात्यये तोयघनास्तोयभरिताः । वार्षिका इत्यर्थः। घना मेघा इव । महाचलमिति शेषः । समासेदुः । अवापुरित्यर्थः ।।

यथास्वमाशंसितविक्रमाः पुरा मुनिप्र[२]भावक्षततेजसः परे ।
ययुः क्षणादप्रतिपत्तिमू[३]ढतां महानुभावः प्र[४]तिहन्ति पौरुषम् ॥४३॥

  यथास्वमिति ॥ पुरा पूर्वं स्वं स्वमनतिक्रम्य यथास्वमहमेवैनं जेष्यामीत्याशंसिताः काङ्क्षिताः कथिता वा विक्रमा यैस्ते परे शत्रवो मुनिप्रभावात्क्षततेजसो हतप्रभावाः सन्तः क्षणात्प्रतिपत्तिमूढतामज्ञानमोहान्धतां ययुः । तथा हि । महानुभावोऽतिप्रतापः पौरुषं पुरुषस्य चेष्टितं प्रतिहन्ति नाशयति ॥

ततः प्रजह्रे सममेव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः ।
[५]होदयानामपि संघवृत्तितांसहायसाध्याः प्रदिशन्ति सिद्धयः॥४४॥

  तत इति ॥ तत एकैकस्याशक्तावपेक्षिता वाञ्छितान्योन्यबलोपपत्तिरन्योन्यशक्त्य- वष्टम्भो यैस्तैः प्रमथैस्तत्रार्जुने । क्रियाधारत्वात्सप्तमी । समं युगपदेव प्रजह्रे प्रहृतम्। भावे लिट् । तथा हि । सहायसाध्याः सिद्धयः कार्यसिद्धयो महोदयानां महानुभा- वानामपि संघेन वृत्तिर्व्यापारो येषां तेषां भावस्तत्ता तां संघवृत्तितां संभूयकारितां प्रदिशन्ति । अतो गणानामपि संभूयकारित्वं न दोष इति भावः ॥

किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः।
महावनादुन्मनसः खगा इव प्रवृत्तपत्रध्वनयः शिलीमुखाः ॥४५॥

  किरातेति ॥ उरुभिर्बृहद्भिश्चापैर्नोदिताः प्रक्षिप्ता उपात्तरंहसः प्राप्तवेगाः प्रवृत्तपत्रध्वनयः संजातपक्षस्वनाः शिलीमुखा बाणाः। महावनादुन्मनसः क्वापि गन्तुमुत्सुकास्तथोक्तविशेषणविशिष्टाश्च खगाः पक्षिण इव । किरातसैन्यात्समं समन्ततः समुत्पेतुः।

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरु[६]न्नमितेन सानुषु ।
धनुर्निनादेन जवादुपेयुषा विभि[७] द्यमाना इव दध्वनुर्दिशः ॥४६॥


  1. 'महाचलम्' इति पाठः
  2. 'प्रभावात्' इति पाठः
  3. 'दीनताम्' इति पाठः
  4. 'प्रविहन्ति'
    इति पाठ:
  5. 'महोदयेभ्योऽपि हिं' इति पाठः
  6. 'उन्नदितेषु' इति पाठ:
  7. 'विभज्यमाना' इति पाठः