गभीरेति ॥ गभीररन्ध्रेषु गम्भीरगह्वरेषु महीभृतः सानुषु ये प्रतिस्वनास्तैर्भृशमुन्न-
मितेनोत्थापितेन दीर्घीकृतेन जवादुपेयुषा प्राप्तवता धनुषां निनादेन दिशो विभिद्यमाना
विदीर्यमाणा इव दध्वनुर्ध्वनिं चक्रुः॥
विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा । |
विधूनयन्तीति ॥ भूरुहां गहनानि वनानि । 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । विधूनयन्ती कम्पयन्ती तिरोहितानि च्छादितान्युपान्तानि प्रान्तानि नभोऽन्तरीक्षं दिगन्तराणि च यया सा गणमार्गणावलिः प्रमथशरसंहतिरनिलेन वायुनेरिता प्रेरिता महीयसी दृष्टिरिव रवं वितेने विस्तारयामास ॥
त्रयीमृतूनामनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः । |
त्रयीमिति ॥ ऋतूनां त्रयीं षण्मासान् । कालाध्वनोरत्यन्तसंयोगे द्वितीया । अनिलाशिनो वायुभक्षकस्य । कृशस्येत्यर्थः। सतस्तथापि रणाय रणं कर्तुं प्रहृष्यत उत्सहमानस्य। 'क्रियार्थो-' इत्यादिना चतुर्थी । जिष्णोरर्जुनस्य वपुषि पोषमुपचयं प्रयाति गच्छति सति शिथिलेन । प्रथममिति शेषः। वर्मणा कवचेन विदुषेवानन्तरकरणीयं जावतेवेत्युत्प्रेक्षा । सत्वरं शीघ्रं घनत्वं दृढत्वमीये प्राप्तम् । अन्यथानुपयोगादिति भावः । इणः कर्मणि लिट् ।।
पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः। |
पतस्विति ॥ शस्त्रेषु रोदसी द्यावापृथिव्यौ । 'द्यावापृथिव्यौ रोदस्यौ' इत्यमरः । समन्ततो वितत्य व्याप्य पतत्सु सत्सु धनुर्दुधूषतः कम्पितुमिच्छतः। आस्फालयत इत्यर्थः । धूञ: सन्नन्ताच्छतृप्रत्ययः । 'स्वरतिसूतिसूयतिधूञूदितो वा' इति विकल्पा- दिडभावः । तस्यार्जुनस्य संबन्धिनी । भीषयत इति भीषणा । नन्द्यादित्वाल्ल्यु:। विनिपातशंसिनी विनाशसूचिका दृष्टिरुक्तविशेषणोल्केव बलेषु सरोषं यथा तथा पपात ॥
दिशः समूहन्निव विक्षिपन्निव प्रभां रवेरा[२]कुलयन्निवानिलम् । |
दिश इति ॥ क्षयकालः कल्पान्तकाल इव । 'संवर्तः प्रलयः कल्पः क्षयः कल्पान्त- इत्यपि' इत्यमरः । दारुणो रौद्रो मुनिरर्जुन इषुभिर्बाणैर्दिशः समूहन्निवैकत्र समाहरन्निव। अन्यथा तासां पारदर्शनं न स्यादिति भावः । रवेः प्रभा विक्षिपन्निवाधःप्रक्षिप-