पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
किरातार्जुनीये


जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा।
तताप कीर्णा नृपसूनुमार्गणैरिति प्रतर्काकुलिता पताकिनी ॥६२॥

  जयेनेति ॥ कच्चिदयं रणाज्जयेन विरमेत् । अस्माञ्जित्वा कच्चिदयं युद्धमुपसंहरेदित्यर्थः । अपि चराचराय स्वस्ति भवेत्कच्चित् । अपि स्थावरजङ्गमं जगन्न विनश्येदित्यर्थः । अपिशब्दः संभावनायाम्। प्रार्थनायां लिङ् । इति प्रतर्का: पूर्वोक्ता ये वितर्कास्तैराकुलिता विह्वला । अत्र सहेतुकं विशेषणमाह--नृपसूनुमार्गणैरर्जुनबाणैः कीर्णा क्षिप्तां पताकिनी सेना। किरातपतेरिति शेषः। तताप तापं प्राप॥

अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः।
बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥६३॥

  अमर्षिणेति ॥ अमर्षिणा क्रोधवता क्षमाश्रयं शान्तिसाध्यं कृत्यमिव । यथा मदो- द्धतेन पुंसा हितं प्रियं वचो निरस्तं तिरस्कृतमिव । यथा बलीयसा बलवत्तरेण विधिना दैवेन निरस्तं पौरुषमिव ! बलिष्ठदैवप्रतिहतपुरुषव्यापारस्य निष्फलत्वादिति भावः। तथा जिष्णुनार्जुनेन निरस्तं क्षिप्तं बलं किरातसैन्यं न रराज। मालोपमा।।

प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः ।
रविकरग्लपितैरिव वारिभिः शि[१]वबलैः परिमण्डलता द[२]धे ॥६४॥

  प्रतिदिशमिति ॥ प्लवगानामधिपोऽधीशो लक्ष्म यस्य तेन वानरचिहेन । 'कपिप्लव- ङ्गप्लवग-' इति, 'चिह्नं लक्ष्म च लक्षणम्' इति चामरः । अर्जुनेन विशिखसंहति- तापितमूर्तिभिरिति विशिखा बाणास्तेषां संहृतयः समूहाः। 'स्त्रियां तु संहृतिवृन्दम्' इत्यमरः । ताभिस्तापिताः पीडिता मूर्तयो देहा येषां तैस्तथाभूतैः । शरनिकरकर्ति- तकलेवरैरित्यर्थः। शिवबलैः प्रथमसैन्यैः कर्तृभिः रविकरेण ग्लपितैः सूर्यकिरणशोषि- तैर्वारिभिरुदकैरिव प्रतिदिशं दिक्षु परिमण्डलता । परितश्चक्राकारमण्डलतेति यावत् ।" दधेऽधारि।प्रतिदिशं मण्डलाकारेण स्थितमित्यर्थः।धाञ: कर्मणि लिट्। आतपतप्तं हि नीरं परिभ्रमति तद्वन्मुनिपीडितं सैन्यं बभ्रामेत्यर्थः। द्रुतविलम्बितं छन्दः- 'द्रुतविलम्बितम्ग्रह नभौ भरौ' इति लक्षणात् ॥

प्र[३]विततशरजालच्छन्नविश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथमपि जयलक्ष्मीर्मीतभी[४]ता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥६५॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।


  1. 'शिवगणैः' इति पाठः
  2. 'आददे' इति पाठ:
  3. 'प्रमहसि शर' इति पाठः
  4. 'भीतेव हातुं' इति पाठः