द्धोऽप्यनुन्नोऽविद्ध एव । यूयमनुन्नस्वामिकत्वादनुन्ना एवेति भावः । तथा नुन्ननुन्न-
नुदतिशयेन नुन्ना नुन्ननुन्नास्तान्नुदतीति नुन्ननुन्ननुदतिपीडितपीडको ना पुरुषोऽनेना
निर्दोषो न भवतीति। किंतु सदोष एवेति । 'नार्तं नातिपरिक्षतम्।' इति निषेधादित्यर्थः।
अयं तु नैतादृश इति न पलायितव्यमिति भावः । अयमेकव्यञ्जनः । अन्त्यस्तकारस्तु
न दोषावहः । 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात् ॥
वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । |
वरमिति ॥ कृताः पूर्वमुत्पादिताः पश्चाद्ध्वस्ता नष्टास्ते कृतध्वस्ताः । 'पूर्वकाल-' इत्यादिना समासः । कृतध्वस्ता गुणा यस्य तस्मात्पुंसोऽत्यन्तमतिशयेनागुणो निर्गुणः पुमान्वरं मनाक्प्रियः । किंचित्प्रिय इत्यर्थः । 'वरं क्लीबे मनाक्प्रिये' इत्यमरः । तथा हि । प्रकृत्या स्वभावेनामणिर्मणिरहितोऽलंकारः श्रेयान् । च्युतोपलो भ्रष्टरत्नो न श्रेयान् । 'उपलः प्रस्तरे रत्ने' इति विश्वः । पलायितुः समरादसमर एव वरमिति भावः । अत्र समानविषयारोपयोः प्रतिबिम्बकरणाद्दृष्टान्तालंकारः॥
स्यन्दना नो चतुरगाः सुरेभावाविपत्तयः। |
स्यन्दना इति ॥ स्यन्दन्ते प्रद्रवन्तीति स्यन्दना जघनाः । स्यन्दना रथा नो सन्ति। नन्द्यादित्वाल्ल्युः । चतुरं गच्छन्तीति चतुरगाः । तुरगाश्चाश्वा नो सन्ति । सुरेभा शोभनबृंहणाः सुरेभा । वा सुरगजाश्च नो सन्ति। अविपत्तयो विपत्तिरहिताः। विपत्तयो वा विशिष्टाः पदातयो नो सन्ति । अतो न भेतव्यमिति भावः । अत्र पूर्वोत्तरार्धगतानां विशेषणानां चोद्देशोद्देश्यीभूतानां यथासंख्यसंबन्धानुक्रमाद्यथासंख्यालंकारो यमकेन संसृष्टः॥
भवद्भिरधुनारातिपरिहापितपौरुषैः। |
भवद्भिरिति ॥ अधुनारातिभिः परिहापितानि त्याजितानि पौरुषाणि यैस्तैर्भवद्भिः। अर्कनिष्पीतैरर्केण संशोषितैर्हृदैरिव । दुरुत्तरो दुस्तरः पङ्क इव पङ्को दुष्कीर्तिः प्राप्तः ।।
वेंत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे। |
वेत्रेति ॥ वेत्राणि वंशाः फलिन्यो वा शाका बर्बराश्च कुजा वृक्षा यस्मिम्स्तस्मिन्वेत्रशाककुजे। शत्रुणा दुःप्रवेश्य इत्यर्थः । 'वेत्रं वंशफलिन्योश्च' इति विश्वः । 'शाकबर्बरवर्धका:' इत्यमरः । लेशेन स्तोकेनाप्येजते कम्पत इति लेशैजः स न भवतीत्यलेशैजस्त-