पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
किरातार्जुनीये

  घुवियदिति ॥ द्यां स्वर्गं वियदन्तरिक्षं च गामिनी व्यापिनी द्युवियद्गामिनी । द्वितीया- प्रकरणे श्रितादिषु गम्यादीनामुपसंख्यानात्समासः । तारेणोच्चैस्तरेण संरावेण नादेन विहता विद्धाः श्रुतयः कर्णा यया सा तथोक्ता। हैमी हेममयीषुमाला शिवशरावलिर्विद्युतां संहतिरिवोक्तविशेषणा विद्युन्मालेव । शुशुभे । चतुर्थपावर्णानां त्रिपाद्यां संभवाद्गूढचतुर्थपादमाहुः ॥

विलङ्घ्य पत्रिणां प[१]ङ्क्तिं भिन्नः शिवशिलीमुखैः ।
‘ज्यायो वीर्यमु[२]पाश्रित्य न चकम्पे कपिध्वजः ॥४४॥

  विलङ्घ्येति ॥ शिवशिलीमुखैः पत्रिणां पङ्क्तिं निजशरावलिं विलङ्घ्यातिक्रम्य भिन्नो विद्धः कपिध्वजोऽर्जुनो ज्यायः प्रशस्तम् । 'वृद्धप्रशस्ययोर्ज्यायान्' इत्यमरः । वीर्यं सत्त्वमुपाश्रित्यावस्थाय न चकम्पे न चचाल । किं तु तान्सहन्नवतस्थावित्यर्थः ।

जगतीशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षीकृताशंसो नागराज इवाबभौ ॥४५॥

  जगतीति ॥ अर्थत्रयवाची श्लोकोऽयम् । तत्रादावगराज इति पदच्छेदमाश्रित्य प्रथमोऽर्थोऽभिधीयते-ईशस्य रणे युक्तः शक्तः। अन्यत्रजगतीशरणे भूरक्षणे युक्तःस्थितः। विधिनेति शेषः। हरिः सिंह इव कान्तो मनोहरः । अन्यत्र हरीणां सिंहानां कान्त आवासदानात्प्रियः । सुष्टु दधाति पालयति प्रजा इति सुधा । क्विबन्तः । असितः कृष्णवर्णः । ततो विशेषणसमासः । अन्यत्र सुधा लेपद्रव्यविशेषस्तद्वत्सितो धवलः। दानवर्षी बहुप्रदः कृताशंसः कृतजयाभिलाषः । अन्यत्र दानवैर्दैत्यैर्ऋषिभिः इना कामेन च कृताशंसा नानाफलाभिलाषो यस्मिन्स ना नरोऽर्जुनः। अगराजो हिमवानिव जगत्याबभावित्येकोऽर्थः । अथैरावतसाम्यमुच्यते-जगतीं भुवं श्यन्ति तनूकुर्वन्तीति ते जगदीशा राक्षसास्तेषां रणस्तत्र युक्तो विहितः समर्थः । हरिकान्त इन्द्रप्रियः । उभयत्रापि समानमेतत् । सुधासितोऽमृतस्वच्छः । एकत्र शीलतः । अन्यत्र वर्णत इति विवेकः । दानवर्षी धनप्रदो मदस्रावी च। कृताशंस उभयत्र कृतजिगीषः। पार्थो नागराज इव ऐरावत इवाबभाविति द्वितीयोऽर्थः। अथ शेषौपम्यमुच्यते-जगतीशरणे भूरक्षणे युक्तो नियुक्तः। दैवेनेति शेषः । 'शरणं गृहरक्षित्रोः' इत्यमरः । हरिकान्तः कृष्णप्रियः । उभयत्रापि तुल्यम् । सुष्ठु दधातीति सुधा । वसुधेति केचित् । एकदेशग्रह- णात्समुदायग्रहणम्। तत्र सितो बद्धः। 'षिञ् बन्धने' । क्तः। अन्यत्र सुधयामृतेन सितो बद्धः । अमृतप्रिय इत्यर्थः । दानवाश्च ऋषयश्च ईर्लक्ष्मीश्च तैः कृताशंसो विहित- प्रशंसः। उभयत्रापि तुल्यमेतत् । सोऽर्जुनो नागराजः शेष इवाबभाविति तृतीयोऽर्थः ।

विफलीकृतयत्नस्य क्षतबाणस्य शंभुना ।
गाण्डीवध[३]न्वनः खेभ्यो नि[४]श्र्वक्राम हुताशनः ॥४६॥


  1. 'पङ्क्ती:' इति पाठः
  2. 'समाश्रित्य' इति पाठः
  3. 'धनुषः' इति पाठः
  4. 'निश्चचार'; 'निःससार' इति पाठौ