नये जलाशये च स तादृशः पुरुषो विशेषदुर्लभोऽत्यन्तदुर्लभो यः कृत्यं संधिविग्रहादि कार्यं स्नानादिकं च तस्य वर्त्म सत्साधु देशकालाद्यविरुद्धम् । यथा तथा । अन्यत्र गर्तग्राहपाषाणादिरहितम् । यथा तथोपन्यस्यत्युदाहरति । उपन्यासस्तु, वाङ्मुखम्। उपाद्धाते उदाहारः' इत्यमरः । यथा केनचित्कृततीर्थे पयसि गम्भीरेऽपि प्रवेष्टार: सन्ति। तीर्थकरस्तु विरलः । तद्वन्नीतावपि गूढमपि तत्त्वं वक्तरि सति बोद्धारः सन्ति। वक्ता तु न सुलभः । अत इयमपठितापि साधु वक्तीति युज्यते विस्मय इत्यर्थः ।।
अथ ग्राह्यत्वे हेतुमाह---
परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसाम् । |
परिणामेति ॥ परिणामः फलकालः परिपाकावस्था च । तत्र सुखे हिते। ‘शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च'इति सुखशब्दस्य विशेष्यलिङ्गत्वम्। गरीयसि भूयिष्ठे श्रेष्ठे च ।क्षतौजसामुभयत्रापि क्षीणशक्तीनां व्यथके युद्धोपोद्बलकत्वाद्भयंकरे । अन्यत्रादौ संशयादिदुःखजनके। अल्पीयस्यल्पाक्षरेऽल्पमात्रे च । उक्तं च-‘स्वल्पा च मात्रा बहुलो गुणश्चः' इति । अस्मिन्वचसि द्रौपदीवाक्ये । अतिवीर्यवत्यस्यन्तसामर्थ्यवति भेषज औषध इव।'भैषजौषधधैषज्यम्' इत्यमरः । बहुरनेको गुणो मानत्राणराज्य- लाभादिरारोग्यबलपोषादिश्च दृश्यते । अतो ग्राह्यमस्या वचनमिति भावः ॥
सत्यमेवं तथापि मह्यं न रोचते । किं करोमीत्याह----
इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । |
इयामिति ॥ रुचिरार्था महितार्थसंपन्नोति रुचिहेतूक्तिः । इयं भारती द्रौपदीवाक्य- मिष्टगुणाय । गुणग्राहिण इत्यर्थः । भवते तुभ्यमपि । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वाच्चतुर्थी । रोचतां स्वदताम् । विध्यर्थे लोट् । हितवचने बलादपीच्छां कुर्या- दौषधवदिति भावः । तथापि स्रैणे वचसि का श्रद्धा तत्राह--नन्विति । गुणानां गृह्या गुणगृह्याः । गुणपक्षपातिन इत्यर्थः । 'पदास्वैरिबाह्यापक्ष्येषु च' इति ग्रहेः क्यप् । विपश्चितो विद्वांसः ।‘विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः । वचने विषये वक्तृविशेषे स्त्री- पुंसादिलक्षणे निःस्पृहा ननु निरास्थाः खलु। 'बालादपि सुभाषितं ग्राह्यम्' इति न्यायादिति भावः ॥
संप्रति स्वयमुपालभते
चतसृष्वर्पिते विवेकिनी नृप विद्यासु निरूढिमागता । |