पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
द्वितीयः सर्गः । ।

 चतसृष्विति ॥ हे नृप, चतसृष्वपि विद्यास्वान्वीक्षिक्यादिषु ।'आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। विद्याश्चैताश्चतस्रस्तु लोकसंस्थितिहेतवः ॥' इति कामन्दक: निरूढिमागता प्रसिद्धिं गता। अतएव विवेकिनी सदसद्विवेकवती । यथाह मनुः--‘आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ ॥ इति । ते मतिः कथं करिणी पङ्कमिव विपर्ययं वैपरीत्यमविवेक- रूपमेत्यावसीदति नश्यति । तन्न युक्तमिति भावः ॥

 किं नश्छिन्नमिदानीं येनेत्थमुपालभ्येमहीत्यत्राह---

विधुरं किमतःपरं परैरवगीतां गमिते दशामिमाम् ।
अवसीदति यत्सुरैरपि त्वयि संभावितवृत्ति पौरुषम् ॥७॥

 विधुरमिति ॥ त्वयि परैः शत्रुभिरिमामीदृशीमवगीतां गर्हिताम् । 'अवगीतं तु निर्वादे मुहुर्दृष्टे च गर्हिते' इति विश्वः । दशां गमिते प्रापिते सति । सुरैरपि संभावि- तवृत्ति बहुकृतप्रसारम् । अथवा निश्चितसद्भावम् । पौरुषं पुरुषकारः । युवादित्वा- दण्प्रत्ययः । अवसीदति नश्यतीति यत् । अतःपरं अतोऽन्यदधिकं किं विधुरं किं कष्टम् । न किंचिदित्यर्थः । 'विधुरं प्रत्यवाये स्यात्कष्टविश्लेषयोरपि' इति वैजयन्ती । अस्तीति शेषः। 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति' इति भाष्यकारः। भवन्तीति लटः पूर्वाचार्याणां संज्ञा । यद्वा पुरुषाधिकारस्य दुर्दशा सा च शत्रुकृता । तदुपरि महत्कष्टं तच्च त्वदुपेक्षयेत्युपालभ्यस इत्यर्थः ॥

 अथापेक्षाकालत्वादियमुपेक्षेत्याशङ्क्य नायमुपेक्षाकाल इति वक्तुं तदेव तावच्छ्लोक- द्वयेन विविनक्ति----

द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिमिच्छता फलसंपत्प्रवणः परिक्षयः ॥८॥

 द्विषतामिति ॥ भूतिमुदयभिच्छता । शोभना मेधा यस्य तेन सुमेधसा सुधिया । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः । गुरुर्महानप्यस्वन्ततरोऽत्यन्तदुरन्तः । क्षयोन्मुखं इत्यर्थः । द्विषतामुदयो वृद्धिः । सुखेन मृष्यत इति सुमर्षणः सुसहः । उपेक्ष्य इत्यर्थः । स्वन्तश्चेद्दुर्मर्षण इति भावः । ‘भाषायां शासि-'इत्यादिना खलर्थे युच्प्रत्ययः । महानपि फलसंपत्प्रवणः फलसंपदुन्मुखः। ‘प्रनिरन्तर---' इत्यादिना णत्वम् । परिक्षयो न सुमर्षणः । नोपेक्ष्य इत्यर्थः । अन्यथा तूपेक्ष्य इति भावः । नह्युदय एव प्रतीकार्यो न च क्षय इत्येवोपेक्ष्यः। किंतु स्वत्तत्वास्वन्तत्वाभ्यामुभा- वपि प्रतीकार्यावुपेक्ष्यौ च भवत इत्यर्थः । ,

 अथोभयोरपि मध्य एकतरस्योदयक्षययोर्गतिमुक्त्वेदानीं युगपत्परिक्षयागमे गतिमाह-

अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥९॥