पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
द्वितीयः सर्गः । ।

शकालयोः । विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥' इति पञ्चानामङ्गानां विनिर्णयः पञ्चाङ्गविनिर्णयः । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः । कृतः पञ्चाङ्गविनिर्णयो- यस्य येन वा, स तथोक्तः । नयो नीतिः । मन्त्र इति यावत्। कोशोऽर्थराशिः । 'कोशोऽस्त्री कुङ्मले खड्गपिधानेऽर्थौधदिव्ययोः'इत्यमरः । दण्डश्चतुरङ्गसैन्यम् ।'दण्डोऽस्त्री शासने राज्ञां हिंसायां लगुडे यमे। यात्राज्ञायां सैन्यभेदे' इति वैजयन्ती । तयोः कोशदण्डयोः । प्रभुशक्तेरित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् ।‘ऋदोरपू'।स नयो विधेयपदेषु कार्यवस्तुषु ।‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः। दक्षतां क्षिप्रकारित्वम् । उत्साहमित्यर्थः । लोकः कृष्यादिप्रवृत्तो जनः ।नियतिं दैवमिव । 'नियतिर्नियमे दैवे' इति विश्वः । अनुरुध्यतेऽनुसरति । रुधेर्दैवादिकात्कर्तरि लट् । मन्त्रस्यापि मूलमुत्साहस्तन्मूलायाः प्रभुशक्तेर्मूलमिति किमु वक्तव्यम् । अतः स एवाश्रयणीयः । यतो नक्तंदिवं मन्त्रयतस्तस्यापि प्रभोर्निरुत्साहस्य न किंचित् सिद्ध्यतीति ।।

 ननु सोत्साहस्यासहायस्य कथमर्थसिद्धिरित्यत्राहः--

अभिमानवतो मनस्विनः प्रियमुञ्चैःपदमारुरुक्षतः ।
विनिपातनिवर्तनक्षमं म[१]तमालम्बनमात्मपौरुषम् ॥१३॥

 अभिमानवत इति ॥ अभिमानवतो मानधनस्य प्रियमिष्टमुञ्चैरुन्नतं पदं स्थानं राज्यादिकमारुरुक्षत आरोढुमिच्छतः प्राप्तुकामस्य मनस्विनो धीरस्यात्मपौरुषं स्वपुरुषकार एव विनिपातनिवर्तनक्षममनर्थप्रतीकारसमर्थमालम्बनं सहकारि मतमिष्टम्। यथा कस्यचित्तुङ्गमारोहतः किंचित्पतनप्रतिबन्धकमनुचरहस्तादिकमालम्बनं तद्वदिति ध्वनिः । किं पौरुषादन्यैः सहायैः शूराणामिति भावः ॥

 पौरुषानङ्गीकारे दोषमाह---

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥१४॥

 विपद इति ॥ अविक्रमं पौरुषहीनं विपदोऽभिभवन्त्याक्रामन्ति । आपदुपेतं विपन्नमायतिरुत्तरकालः । 'उत्तरः काल आयतिः' इत्यमरः।रहयति त्यजति।निरायतेः। आसन्नक्षयस्येत्यर्थः । लघुतागौरवं नियतवश्यंभाविनी । न कश्चिदेनमाद्रियत इत्यर्थः। अगरीयांल्लघीन्नृपश्रियो राजलक्ष्म्या पदमास्पदं न भवति । यद्वा नृपेति पदच्छेदः । तस्मात्पौरुषं कर्तव्यमेवेत्यर्थः । अत्र पूर्वपूर्वस्याविक्रमत्वादेरुत्तरोत्तरविपदादिकं प्रति कारणत्वात्कारणमालाख्योऽलंकारः ।तथा सूत्रम्-‘पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला' इति ॥