पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
द्वितीयः सर्गः । ।

 ननु साम्नैव कार्यसिद्धौ किं क्षात्रेण । यथाह मनुः-'साम्ना दानेन भेदेन समस्तैर- थवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥' इति।तत्किमाग्रहेणेत्याशङ्क्याह---

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः ।
लघयन्खलु तेजसा ज[१]गन्न महानिच्छति भूतिमन्यतः ॥१८॥

 मदेति ॥ मृगाधिपः सिंहो मदसिक्तमुखै:। मदवर्षिभिरित्यर्थः ।स्वयं स्वेनैव हतैः करिभिर्वर्तयते वृत्तिं करोति । तैरेव जीवतीत्यर्थः । चौरादिकाद्वृत्तेर्लट् । भौवादिकस्य तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदनियमादिति।तथाहि। तेजसा प्रभावेण। 'तेज़ो बले प्रभावे च ज्योतिष्यर्चिषि रेतसि' इति वैजयन्ती । जराल्लघयंल्लघूकु- र्वन्महांस्तेजस्व्यन्यतोऽस्मात्पुरुषाद्भूतिं वृद्धिं नेच्छति खलु । नहि तेजस्विनः परायत्त- वृत्तित्वं युक्तम् । मनुवचनं त्वशूरविषयमिति भावः । विशेषेण वक्ष्यमाणसामान्यसम- र्थनरूपोऽर्थान्तरन्यासः ।।

 ननु युद्धात्पाक्षिको लाभः, उपायान्तरैस्तु न तथेत्याशंक्याह-

अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥१९॥

 अभिमानेति । अभिमानधनस्य वैरनिर्यातनमात्रनिष्ठस्य। अतएवगत्वरैर्गमनशीलैर- स्थिरैः। 'गत्वरंश्च' इति क्वरबन्तो निपातः । असुभिः प्राणैः करणैः। 'पुंसि भूस्यसवः प्राणाः' इत्यमरः । स्थास्नु स्थिरम् । 'ग्लाजिस्थश्च ग्स्नु' इति ग्स्नुप्रत्ययः । यशश्चिची- षतश्चेतुं संग्रहीतुमिच्छतः । चिनोतेः सन्नन्ताच्छतृप्रत्ययः । अचिरमंशवो यस्याः सा- चिरांशुर्विद्युत्तस्या विलासः स्फुरणं तद्वञ्चञ्चला । क्षणिकेत्यर्थः । लक्ष्मीः संपदनुषङ्गा- दागतमानुषङ्गिकमन्वाचयशिष्टमल्पं फलम् । मानत्राणजं यश एवं मुख्यं फलमभ्युच्चयतु लक्ष्मीरिति मानिनामिदमेव श्लाघ्यमित्यर्थः । अत्रास्थिरप्राणत्यागेन स्थिरयश:स्वीकारा- भिधानान्न्यूनाधिकविनिमयाख्यः परिवृत्यलंकारः । तदुक्तं काव्यप्रकाशे--- ‘परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः' इति ।

 नन्वल्पस्य मानस्य हेतोः कथं प्राणत्यागः शक्यते कर्तुम्, यतः 'जीवन्नरो भद्रशतानि पश्येत्' इत्याशंक्याह।

ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः।
अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥२०॥

 ज्वलितमिति ॥ जनो भस्मनां चयं पुञ्जमास्कन्दति पादादिनाक्रमति । अदाहकत्वा- दिति भाग: । ज्वलितं ज्वलन्तम् । कर्तरि क्तः। 'मतिबुद्धि--' इत्यादिन्सूत्रे चकाराद्वर्त- मानार्थत्वम् । हिरण्यं रेतो यस्य तं हिरण्यरेतसमग्निं नास्कन्दति । दाहकत्वादिति