पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
किरातार्जुनीये

भावः । अतो हेतोर्मानिनोऽभिभूतिभयात्प्राणलाभेन तेजस्त्यागे परिभवो भविष्यतीति भयादसूनेव सुखमक्लिष्टमुज्झन्ति त्यजन्ति । धाम तेजस्तु नोज्झन्ति। मानहानिकराज्जी- वनात्स्वतेजसा मरणमेव वरमित्यर्थः । पूर्वतरश्लोकवदर्थान्तरन्यासः ।

 अथवा किमत्र प्रयोजनचिन्तया। किंतु तेजस्विनामयं स्वभाव एव याज्जिगीषुत्वमि त्याशयेनाह--

किम[१] पेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥२१॥

किमिति ॥ मृगाधिपः सिंहः किं फलं प्रयोजनमपेक्ष्य ध्वनतो गर्जतः । धरन्तीति धराः । पचाद्यच् । पयसां धरास्तान्पयोधरान्मेघान्प्रार्थयतेऽभियाति।‘याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः । यद्वावरुणद्धीत्यर्थः । प्रा अर्थयते। ‘प्रा स्याद्याच्ञावरोधयोः' इत्यभिधानात्प्रा अवरोधेन।प्रा इति तृतीयान्तम्।आकारान्तस्य प्राशब्दस्य योगविभागात् 'आतो धातोः' इत्यालोपः। तथाहि । महीयसो महत्तरस्य सा प्रकृतिः खलु यया प्रकृत्यान्यसमुन्नतिं परवृद्धिं न सहते। महतः परभञ्जन- मेव पुरुषार्थ इत्यर्थः । पूर्ववदलंकारः ॥

 निगमयति----उक्तार्थोपसंहरणं निगम उच्यते ।।

कुरु तन्मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् ।
ध्रुवमे[२] तदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥२२॥

कुरु तदिति ॥ हे नृप, तत्तस्मादुक्तरीत्या पराक्रमोत्साहयोर्हेतुत्वाद्धेतीः।'यत्तद्यतस्ततो हेतौ' इत्यमरः । प्रमादजं तमो मोहं निर्धूय निरस्य विक्रमे पौरुष एवं मतिं कुरु । विक्रममेवाङ्गीकुरु, न तूपायान्तरमित्यर्थः । न च विक्रमवैफल्यशङ्का कार्येत्याह-- ध्रुवमिति । विद्विषां विपत्तयस्त्वदनुत्साहहतास्तवानुत्साहेनाव्यवसायेन हृताः प्रतिबद्धाः। अन्यथा प्रागेव विपद्येरन्निति भावः । इत्येतद्ध्रुवं निश्चितमवेहि विद्धि । 'ध्रुवं नित्ये निश्चिते च' इति शाश्वतः ।। न च नः पराजयशङ्का कार्येत्याह----

द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायन्तः ।
प्रसहेत रणे तवानुजान्द्विषतां कः शतमन्युतेजसः ॥२३॥

 द्विरदानिति ॥ दिग्वैिभावितान्दिक्षु प्रसिद्धांस्तानायत आगच्छतः ।आङ्पूर्वादि- ण्धातोः शतृप्रत्ययः । चतुरो द्विरदान्दिग्गजानिव, तथोक्तविशेषणांश्चतुरस्तोयनिधी- निव, रण आयतो दिग्विभाविंताञ्छतमन्युतेजस इन्द्रविक्रमांश्चतुरस्तवानुजान्द्विषतां मध्ये कः प्रसहेत सोढुं शक्नुयादित्यर्थः। 'शकि लिङ् च' इति शक्थार्थे लिङ् । अतो निःशङ्कं प्रवर्तस्वेति भावः ॥


  1. ‘अवेक्ष्य' इति पाठः,
  2. ‘एवम्” इति पाठः