पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उपोद्धातः ।


 किरातार्जुनीयप्रणेतातिप्राचीनो महाकविमूर्धन्यः श्रीभारविः कस्मिन्समये कतमं जनपदं जन्मना भूषितवानिति निश्चेतुमतीव दुःशकम् । किं तु काव्यमालायां मुद्रिते त्रयोदशे प्राचीनलेखे 'किरातार्जुनीयपञ्चदशसर्गादिकोम्कारो दुव्विनीतनामधेयः' इति किरातार्जुनीयस्य, षोडशे प्राचीनलेखे च ‘येनायोजिनवेऽश्मस्थिरमर्थविधौ विवेकिन्प्र जिनवेश्म। स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥' इति भारविकवेर्नाम समुपलभ्यते । तत्र त्रयोदशो लेखोऽष्टानवत्युत्तरषटूछतेषु (६९८) शक वर्षेषु, षोडशो लेखश्च षट्पञ्चाशदधिकपञ्चशतेषु (५५६)शकवर्षेषु लिखितोऽस्ति । एतेन ख्रिस्ताब्दीयसप्तमशतकारम्भेऽपि भारविकविः कालिदासवत्सुप्रसिद्ध उपमा- नभूतश्चासीत् । तादृशी प्रसिद्धिश्च सत्वरमेव न भवतीति ख्रिस्ताब्दीयषष्ठशतकात्प्राचीनो भारविरिति निर्विकल्पम् ।।

 'व्हिएना ओरिएण्टल् जर्नल्' नाम्नस्त्रैमासिकपुस्तकस्य तृतीये भागे द्वितीये खण्डे (१४४ मिते पृष्ठे) शार्मण्यदेशीयो याकोबीपण्डितोऽपि “We therefore cannot place Magha later than about the middle of the sixth century; and Bharavi who is older than Magha by at least a few decades about the beginning of the sixth century' इत्यादि वदन्ख्रिस्ताब्दीयषष्ठशतकमध्यभागात्कथमपि माघकविर्नार्वाचीनः, भारविश्च ततोऽपि प्राचीन इति स्थिरीकरोति ।

 देशश्च भारवेरनिश्चित एव । राजाराम-रामकृष्ण-भागवत-पण्डितस्तु ‘म-हाठ्यांच्या संबंधानें चार उद्गार' एतन्नामके महाराष्ट्रभाषाग्रथिते स्वकीयसंदर्भे (३४ पृष्ठे) "जशा- सह्याद्रीच्या कड्यावर समुद्राच्या लाटा मोघ होतात' असा किराताच्या अठराव्या सर्गात उद्गार काढणारा भारवि निःसंशय दाक्षिणात्य होय; मग तो, महाठा असो किंवा अस्सल द्रविड़ असो,' इत्युद्गिरति । अत्र यदि सह्याद्रिनामग्रहणमात्रेणैव भार- वेर्दाक्षिणात्यत्वमङ्गीक्रियेत, तदा तु दक्षिणदिक्प्रसिद्धानां मलय-सह्य-सुवैलादिपर्वतानां कावेरी-गोदावरी-ताम्रपर्णी-भीमा-वेणादिनदीनां च वर्णयिता हरविजयकारः सुप्रसिद्ध काश्मीरकरत्नाकरमहाकविरपि दाक्षिणात्य एवेत्यपि सुवचम् । एवं विन्ध्याटवीवर्णन तत्परो बाणोऽपि विन्ध्याद्रिवासी कश्चन भिल्लः स्यात् । अन्येऽपि खर्गपातालादिवर्णन- बद्धपरिकरा:, कवयस्तत्तत्प्रदेशवास्तव्या देवा दानवाश्च भवितुमर्हन्तीत्यतिसरला सरणिर्देशनिर्णय समुद्गीणां भागवतमहाशयेन ।

 किरातार्जुनीयमपहायान्यः कोऽपि ग्रन्थो भारविकविग्रणीतो नावलोकितः । किरा- तार्जुनीयस्य तु प्रकाशवर्ष-जोनराज-एकनाथ-धर्मविजय-विनयसुन्दर-नरहरि-मल्लिनाथाथिभिः प्रणीताष्टीकास्तत्तद्देशेषु समुपलभ्यन्ते । तासु मल्लिनाथप्रणीता घण्टापथाख्यैव सर्वगुणपूर्णा सर्वत्र लब्धप्रचारा च । तत्र प्रकाशवर्ष-जोनराजौ, काश्मीरकौ, धर्मविजय-विनयसुन्दरौ जैनौ, एकनाथ-नरहरि-मलिनाथाश्च दाक्षिणात्याः सन्ति । प्रतापरुद्रीयटीकाप्रारम्भे मल्लिनाथस्य कनिष्ठसूनुः कुमारस्वामी भङ्गलाचरणश्लोकद्वया नन्तरमित्थमात्मानं वर्णयति----‘वाणीं काणभुजीमजीगणदवासासीच्च वैयासिक़ीमन्त-