पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
द्वितीयः सर्गः । ।

अद्यापि संशयगतत्वेनेत्यर्थः । निर्णयमेव धावत्यनुसरति । अपेक्षत इति यावत् । अद्यापि निर्णयस्यानुदयादिति भावः । निर्णयानुदये हेतुमाह---अवेति । विधेयेषु संधिविग्रहादिकर्तव्यार्थेषु या विशेषसंपदोऽवान्तरभेदभूमानस्ताः सुखमक्लेशेनावसाययितुम् । पुरुषान्प्रत्यानुकूल्येन स्वस्वरूपं स्वयमेव शीघ्रं प्रत्याययितुमित्यर्थः। स्यतेर्ण्यन्तादणि कर्मकर्तृकात्तुमुन् । णेरनादिसुत्रस्यायं विषयः । क्षमन्त इति क्षमाः । पचाद्यच् । शक्ता न भवन्ति ।'क्षमं शक्ते हिते त्रिषु' इत्यमरः । विधेयमात्रस्य सुगमत्वेऽपि तद्विशेषाणां सौक्ष्म्याद्बाहुल्याच्च दुर्ज्ञेयत्वादद्यापि निर्णयाकाङ्क्षेति तात्पर्यार्थः।अत्र निर्णयधावनं प्रत्युत्तरवाक्यार्थस्य हेतुत्वाभिधानाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तदुक्तम्-‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ।

 वस्तुविशेषावधारणमन्तरेणैव प्रवृत्तिरित्याशंक्याह----

सहसा विधीत न क्रियामविवेकः परमापदां पदम् ।
वृ[१]णते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥३०॥

 सहसेति ॥ क्रियत इति क्रियां कार्यं सहसा। अविमृष्येत्यर्थः ‘सहसेत्याकस्मि- काविमर्षयोः' इति गणव्याख्याने स्वरादिपाठादव्ययम्। न विदधीत न कुर्वीत । कुतः । अविवेकोऽविमृष्यकारित्वं परमत्यन्तमापदां पदं स्थानम् । कारणमित्यर्थः । व्यतिरके- णोक्तमर्थमन्वयेनाह--वृणत इति । गुणलुब्धा गुणगृध्नव इति स्वयंवरहेतूक्तिः। संपदः श्रियः । विमृष्य करोतीति विसृष्यकारी। 'उपपदमतिङ्' इति समासः । तं स्वयमेव वृणते भजन्ते हि । 'वृङ् संभक्तौ इति धातुः । तस्माद्विमृष्यैव प्रवर्तितव्यमित्यर्थः । अत्र सहसा विधाननिषेधलब्धविमृष्यकारित्वरूपकारणस्यापद्रूपव्यतिरेककार्येण समर्थनाद्वैधर्म्येणार्थान्तरन्यासः । द्वितयार्धेन च स एव साधर्म्येणेति ज्ञेयम् ।

 ननु साहसिकस्यापि फलासिद्धिर्दृश्थत एव । तत्किं विवेकेनेत्यत्राह--

अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥३१॥

 अभीति ॥ यः पुमान् । विधीयन्त इति विधयः कृत्यवस्तूनि बीजानीवेत्युपमित- समासः । शरदं लोक इवेति वाक्यगतोपमानुसारात्। तानि विधिबीजानि। विवेको वारीव तेन विवेकवारिणा । पूर्ववत्समासः । अनुपालयन्प्रतीक्षमाणः संरक्षन्नमिवर्षति सिञ्चति । स पुमान् ।फलं साधननिष्पाद्योऽर्थः, सस्यं च ।'सस्ये हेतुकृते फलम्' इत्युभयत्राप्यमरः । तच्छालिनीं क्रियां कर्म लोको जनः । ‘लोकस्तु भुवने जने' इत्यमरः । शरदमिव सदा नित्यमधितिष्ठति । सदा क्रियाफलं प्राप्नोत्येव । न कदाचिद्व्यभिचरतीत्यर्थः । साहसिकस्य काकतालीयन्यायेन फलसिद्धिर्विवेकिनस्तु नियतेति भावः । अत्र फलशब्देन सस्यहेतुकृतयोरर्थयोरभेदाध्यवसायाच्छ्लेषमूलाति- शयोक्तिस्तदनुगृहीता चोपमेत्यनुसंधेयम् ॥


  1. 'वृणुते' इति पाठः.