पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
द्वितीयः सर्गः । ।

खल्चचिराय संपदां चापलाश्रयमस्थैर्यनिबन्धनमयशो दुष्कीर्तिं जनयन्ति । आश्रय- दोषादस्थैर्थं सम्पदां न स्वदोषादित्यर्थः । अजितारिषङ्वर्गस्य कुतः संपद इति भावः ॥

 तथा क्रोधात्कार्यहानिरित्याशयेनाह---

अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गता[१]पनी ।
जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥४२॥

 अतिपातितेति ॥ अतिपातितान्यतिक्रान्तानि कालः समयोऽनुरूपः साधनानि सहयादीनि यया सा तथोक्ता । तापयतीति तापनी । कर्तरि ल्युट् । टित्वान्ङीप् । स्वस्य यच्छरीरमिन्द्रियवर्गश्च तयोस्तापन्यक्षमा क्रोधो भवन्तं जनवत्पृथग्जनमिव। 'तेन तुल्यं-' इति वतिप्रत्ययः । तेनेवार्थों लक्ष्यते । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययम् । नयसिद्धेर्नयसाध्यफलादपनेतुं पृथक्कर्तुं नार्हति। असमयक्रोधस्यात्मसं- तापातिरिक्तं फलं नास्तीत्यर्थः ॥

 दुष्टः क्रोध इत्युक्तम् । अथ क्षमाया गुणानाह-

उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥४३॥

 उपकारकमिति ॥ आयतेरुत्तरकालस्य भृशमत्यन्तमुपकारकम्।स्थिरफलहेतुरित्यर्थ:। भूरिणः प्रभूतस्य कर्मफलस्य । प्रसूयतेऽनेनेति प्रसवः कारणम् । अपायि न भवतीत्यनपयि स्वयमविनश्यदेव द्विषां निबर्हणं विनाशकमेवंगुणकं साधनं तितिक्षासमं क्षमातुल्यं नास्ति । 'क्षान्तिः क्षमा तितिक्षा च' इत्यमरः । 'तिज निशाने' इति धातोः 'गुप्तिज्किद्भ्य: सन्' इति क्षमार्थे सन्प्रत्ययः । तितिक्षासममित्यनुक्तोपमेया समास आर्थी लुप्तोपमा, भृशायत्यनपायिशब्दैः साधनान्तरवैलक्षण्याद्व्यतिरेकश्च व्यज्यते । भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये च व्यतिरेकः ।।

 ननु तितिक्षया कालक्षेपे दुर्योधनः सर्वान् राज्ञो वशीकुर्यादित्यत्राह--

प्रणतिप्रवणान्विहाय नः सहजस्नेह[२]निबद्धचेतसः ।
प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥४४॥

 प्रणतीति। सहजस्नेहेनाकृत्रिमप्रेम्णा निबद्धचेतसोऽस्मासु गाढं लग्नचित्ताः। सुयोधने तु न तथेति भावः । किं च मानभृतामहंकारिणां प्रथमेऽग्रेसरा:। सुयोधनस्तु ततोऽपीति भावः । वृष्णयो यादवा: प्रणतिप्रवणान्प्रणामपरान् । सुयोधनस्तु न तथेति भावः । नोऽस्मान्विहाय सुयोधनं सदा न प्रणमन्ति न नमन्ति नानुसरन्ति। किंतु कार्यकाले त्यक्ष्यन्त्येवेत्यर्थः। सति यादवविग्रहे न किंचिदस्माकमसाध्यं भवेदिति भावः । अनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥


  1. 'तापिनी' इति पाठः,
  2. 'प्रेम' इति पाठः