पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
किरातार्जुनीये

 तथापि कथं वर्धमानं शत्रुमुपेक्षेतेत्याशङ्क्य दुर्विनीतत्वादित्याह---

मतिमान्विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः ।
सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसंपदः ॥५२॥

 मतिमानिति ॥ मतिमान्प्राज्ञ:। विनयं प्रमथ्नातीति विनयप्रमाथिनो दुर्विनीतस्य द्विषः समुन्नतिं वृद्धिं समुपेक्षेत । उपेक्षायाः फलमाह---तादृगविनीतोऽन्तरे क्वचिद्रन्ध्रे सुजयः सुखेन जेतुं शक्यः खलु । हि यस्मादविनीतसंपदो विपदन्ता विपन्मर्यादकाः । अनर्थोदर्का इत्यर्थः ॥

 कथं दुर्विनीतस्य शत्रोः सुजयत्वमित्याशङ्क्य भेदजर्जरितत्वादित्याह-

लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् ।
अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगारयः ॥५३॥

 लघ्विति ॥ लघुवृत्तितया स्वस्य दुर्वृत्तरूपतया बहिर्मित्रादिजनपदेष्वन्तरमात्यादिषु च भिदां भेदं गतम् । 'षिद्भिदादिभ्योऽङ्' इत्यङ्प्रत्ययः । नृपस्य मण्डलं राष्ट्रमनन्तरः संनिहितो जिगीषुरापगारयो नदीवेगः शिथिलमन्तर्भेदजर्जरं कूलमिवाभिभूयाक्रम्य हरति ।।

अनुशासतमित्य[१]नाकुलं नयवर्त्माकुलमर्जुनाग्रजम् ।
स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः ॥५४॥

 अन्विति ॥ इतीत्थमाकुलमरिनिकारस्मरणात्क्षुभितमर्जुनाग्रजं भीमसेनं नयवर्त्म- नीतिमार्गमनाकुलमसङ्कीर्णं यथा तथानुशासतमुपदिशन्तम् । 'जक्षित्यादयः षट्' इत्य- भ्यस्ताच्छतुर्नुमभावः । तं युधिष्ठिरं पराशरात्मजो वेदव्यासः । स्वयमभिवाञ्छितोऽर्थ इव । साक्षान्मनोरथ इवेत्युत्प्रेक्षा । अभीयाय प्राप्तः ।।

 अथ युग्मेनाह----

मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं नि[२]रीक्षितैः ।
परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥५५॥

 मधुरैरिति ॥ मधुरैः शान्तैर्निरीक्षितैरवलोकनैः । नपुंसके भावे क्तः । न विद्यते वशमायत्तत्वं येषां तान्यवशानि प्रतिकूलानि । 'वशमायत्ततायां च' इति विश्वः । तिर्यञ्चि मृगपक्ष्यादीनि शमं शान्तिं लम्भयन्प्रापयन् । 'लभेश्च' इति नुमागमः। 'गत्यर्थ-' इत्यादिना द्विकर्मकत्वम्। परितः पटूज्ज्वलमेनसाम् ।दह्यतेऽनेनेति वहनं निवर्तकं तथापि विलोकनक्षमं दर्शनीयम् । वह्लयादिविलक्षणमिति भावः । धाम तेजो बिभ्रत् ॥


  1. अनाविलं' इति पाठः,
  2. 'समीक्षितैः' इति पाठः,