र्यस्य तस्येन्दोर्लक्ष्मीमुवाह वहति स्म । अत्रोपमेयस्य राज्ञ उपमानेन्दुधर्मेण लक्ष्म्याः
साक्षात्संबन्धासंभवात्तत्सदृशीं लक्ष्मीमिवेति प्रतिबिम्बकरणाक्षेपादसंभवद्वस्तुसंब-
न्धात्पदार्थवृत्तिर्निदर्शनालंकारः। तदुक्तम्- 'प्रतिविम्बस्याकरणं संभवता यत्र
वस्तुयोगेन । तत्साम्यमसंभवता निदर्शना सा द्विधाभिमता ॥ इति ॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य-
व्याख्यायां घण्टापथसमाख्यायां द्वितीयः सर्गः समाप्तः ।
तृतीयः सर्गः।
अथ त्रिभिर्मुनिं विशिषंश्चतुर्भिः कलापकमाह । तदुक्तम्-'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् ॥ 'इति--
ततः शरच्चन्द्रकराभिरामैरुत्सर्पिभिः प्रांशुमिवांशुजालैः। |
तत इति । तत उपवेशानन्तरं धर्मात्मजो युधिष्ठिरः शरच्चन्द्रकराभिरामैः आह्लाद- कैरित्यर्थः । उत्सर्पिभिरूर्ध्वं प्रसारिभिरंशुजालैः प्रांशुमुन्नतमिव स्थितमित्युत्प्रेक्षा। पुनरानीलरुचं कृष्णवर्णं पिशङ्गीः पिङ्गलवर्णाः । गौरादित्वान्ङीप्। जटा बिभ्राणं धारयन्तमतएव तडित्वन्तं विद्युद्युक्तमम्बुवाहमिव स्थितमित्युत्प्रेक्षा ॥
प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । |
प्रसादेति ॥ पुनः समग्रां संपूर्णी प्रसादः सौम्यता तस्य लक्ष्मीं संपदं दधतम् । अतएव जनमतिगच्छतीति जनातिगेन लोकातिशायिना । 'अन्येष्वपि दृश्यते' इति डप्रत्ययः । वपुःप्रकर्षेणाकारसंपदासंस्तुतानामपरिचितानामपि । व्यासोऽयमित्यजानता- मपीत्यर्थः । 'संस्तवः स्यात्परिचयः' इत्यमरः । चेतःसु चित्तेष्वार्द्रं, स्नेहार्द्रं, भावमभिप्रायं प्रसह्य बलात्समासजन्तम् । लगयन्तमिति यावत् । 'देशसञ्जस्वञ्जां शपि' इत्युपधाया लोपः । प्रसन्नाकारेषु सर्वोऽपि स्निह्यतीति भावः॥
अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् । |
अनुद्धतेति ॥ पुनरतुद्धताकारतया शान्ताकारत्वेन लिङ्गेनान्तःकरणस्य वृत्तिं विविक्तां पूताम् । शान्तामिति यावत् । 'विविक्तौ पूतविजनौ' इत्यमरः । तन्वन्तं प्रक- टयन्तम् । आकृतिरेवास्य चित्तशुद्धिं कथयतीत्यर्थः । पुनर्माधुर्यं निसर्गसौम्यता विस्त्र-