पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
तृतीय: सर्गः । ।


म्भो विश्वासः । 'समौ विस्रम्भविश्वासौ' इत्यमरः । तयोर्विशेषमतिशयं भजतीति तथोक्तेनेक्षितेन दर्शनेनैव कृतोपसंभाषा संभाषणं येन तमिवेत्युत्प्रेक्षा । दृष्टिविशेषे- णैवोपसंभाषमाणमिव स्थितमित्यर्थः । काशिकायां तु 'उपसंभाषणमुपसान्त्वनम्' इति भासनादिसूत्रेण ॥

धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् ।
हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमाबभाषे ॥ ४ ।

धर्मेति ॥ पुनर्धर्मं निबध्नन्तीति धर्मनिबन्धिनीनामग्निहोत्रादिधर्मप्रतिपादिकाम् । एनःप्रणुदामधच्छिदाम् । क्विप् । श्रुतीनां वेदानाम् । 'श्रुतिः स्त्री वेद आम्नांसां इत्यमरः । प्रसूतिं प्रभवं सुखेनोपविष्टं मुनिं तदभ्यागमने तस्य मुनेरागमने हेतुम् । आप्सुर्जिज्ञासुः । आप्नोतेः सन्नन्तादुप्रत्ययः । 'आप्ज्ञप्वृधामीत्'इतीकारः।अत्र लों वृऽभ्यासस्य' इत्यभ्यासलोपः। आबभाष उवाच ।

अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री।
तुल्या भवद्दर्शनसंपदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥५॥

अनाप्तेति ॥ अनाप्तपुण्योपचयैरकृतपुण्यसंग्रहैर्दुरापा दुर्लभा। फलस्य सवित्री स्करी निर्धूतरजा हतरजोगुणा । अन्यत्र निरस्तधूलिः। 'रजो रजोगुणेधूलौ परारवयोरपि' इति शाश्वतः। एषा भवद्दर्शनसंपत्संपत्तिः । लाभ इति यावत् । संपदभ्यः क्विपो भावार्थत्वात् । वीतबलाहकाया गतमेघाया दिव आकाशस्य संबन्धि वृष्टेस्तुल्येत्युपमालंकारः । अनभ्रवृष्टिवदतर्कितोपपन्नं भवद्दर्शनं सर्वथा कस्यचित्यसो निदानमित्यर्थः । वारि वहतीति बलाहकः । पृषोदरादित्वात्साधुः ॥

अद्य क्रियाः कामदुधाः क्रतूनां सत्याशिषः संप्रति भूमिदेव
आसंसृतेरस्मि जगत्सु जातस्त्वय्यागते यद्बहुमानपात्रम् ॥६।।

अद्येति ॥ अद्य क्रतूनां क्रिया अनुष्ठानानि । कामान्दुहन्तीति कामदुधाः । फलो इत्यर्थः । 'दुहः कब्धश्चः' इति कप्प्रत्ययो धादेशश्च । संप्रत्यद्य भूमिदेवा ब्राह्मण एवे- 'द्विजात्यग्रजन्मभूदेवबाडवाः । 'विप्रश्च ब्राह्मणः' इत्यमरः । सत्याशिषो जाताः अतीता ह्मणाशिपोऽद्य फलिता इत्यर्थः । यद्यतः कारणात्वय्यागते सति । त्वदागमनेनः। उ- मित्तेनेत्यर्थः । अस्मीत्यहमर्थेऽव्ययम् । 'अस्मीत्यस्मदर्थानुवादेऽहमर्थेऽपि' इति वान् । व्याख्याने । 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नषया- दूये' इति प्रयोगाच्च । आसंसृतेरा संसारात् । यावत्संसारमित्यर्थः । 'अभिविधुच्चये' ङ्विकिल्पादसमासः । जगत्सु बहुमानपात्रं बहुयोग्यताभाजनं जातः । सकलससंगहे- फलभूतं त्वदागमनं येन मे जगन्मान्यतेति भावः ॥