किरातार्जुनीये
श्रियं विकर्षत्यपहन्त्यघानि श्रेयः प[१] रिस्रौति तनोति कीर्तिम् । |
श्रियमिति ॥ आत्मयोनेर्ब्रह्मण इव लोकगुरोस्तवामोघमविफलं संदर्शनं श्रियं नित्याकर्षति । अघानि दुःखान्यपहन्ति।'अंहोदुःखव्यसनेष्वघम्'इत्यमरः। श्रेयषार्थं परिस्रौति स्त्रवति । कीर्तिं च तनोति।किं बहुना किं न धत्ते किं न करोति। सर्वं करोतीत्यर्थः॥
श्च्योतन्मयूखेऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिमेति चक्षुः। |
श्च्योतदिति ॥ हे भगवन् , श्च्योतन्मयूखे सुधास्त्राविकरे हिमधुताविन्दावपि विषये निर्वृतम् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । मे चक्षुस्त्वत्सन्निधौ निर्वृतिमेति। तथा चेतश्च समुज्झितज्ञातिवियोगखेदं त्यक्तबन्धुविरहदुःखं समुच्छ्वसतीतुपरोधेन प्राणितीवेत्युत्प्रेक्षा । पूर्वार्धे तु निर्वृतिकारणे सत्यपीन्दावनिर्वृतिकथना- पोक्तिः । तदुक्तम्-'तत्सामग्र्यामनिर्वृत्तिर्विशेषोक्तिर्निगद्यते' इति ॥
निरास्पदं प्रश्नकुतूहलित्वमस्मास्वधीनं किमु निःस्पृहाणाम् । |
निरास्पदमिति ॥ प्रश्नकुतूहलित्वं निरास्पदम् । त्वदागमनप्रयोजनप्रश्नो निरास्पदर्थ:। 'आस्पदं प्रतिष्ठायाम्' इति निपातः। प्रश्नानवकाशे हेतुमाह-निःस्पृहाणाम् । एतादृशामित्यर्थः । अस्मास्वधीनमायत्तं किमु । न किंचिदस्मत्तो लभ्यमित्यर्थः । परत्वविवक्षायां सप्तमी । तथापि कल्याणकरीम् । अस्मद्धितैकहेतुमित्यर्थः । नि:- वृत्तेः पारार्थ्यादिति भावः । 'कृञो हेतु-' इति टप्रत्यये ङीप् । अतस्ते गिरं स्रोतुमिच्छा माम् । मुखं वागस्यास्तीति मुखरो निरन्तरभाषी । 'रप्रकरणे खमुख- भ्य उपसंख्यानम्' इति रः । 'दुर्मुखे मुखराबद्धमुखौ' इत्यमरः । ततश्चिवप्रत्यय:। मुखरीकरोति । व्याहरयतीत्यर्थः । निःस्पृहस्यापि ते वाक्यमस्मद्धितकरत्वा- तव्यमिति भावः ॥
इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।। |
इतीति ॥ इतीत्थमुक्तिविशेषरम्यमुक्तिवैचित्र्यचारु यथा तथोक्तवान् । उदारचेता मना नरेन्द्रो द्वैपायनेन व्यासेन । द्वीपमयनं स्थानं जन्मभूमिर्यस्य स द्वीपायनः। द्वैपायनस्तेन । 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः । नापत्यार्थे । 'नडादिभ्यः
- ↑ 'परिस्तौति' इति पाठ: