पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
तृतीय: सर्गः ।


फक्' । तेष्वेव पाठाद्बाधितार्थत्वाच्च । जयोपपत्तौ मनः समाधाय । जयसिद्धिमपे- क्ष्येत्यर्थः । इति वक्ष्यमाणप्रकारामुदारामर्थवतीं गिरमभिदध उक्तः । दुहादित्वाद- प्रधाने कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥' इति वचनात् ॥

आदौ तावत्तस्य माध्यस्थ्यभङ्गदोषं युग्मेन परिहरति-

चिचीषतां जन्मवतामलध्वीं यशोवतंसामुभयत्र भूतिम् ।
अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम्॥११॥

चिचीषतामिति ॥ अलध्वीं गुर्वीम् । 'वोतो गुणवचनात्' इति ङीप् । यशोवतंसां कीर्तिभूषणाम् । उभयत्रेह चामुत्र च भूतिं श्रेयश्चिचीषतां चेतुं संग्रहीतुमिच्छताम् । चिनोतेः सन्नन्ताच्छतृप्रत्ययः । जन्मवतां शरीरिणां बन्धुषु विषये तुल्यरूपैकविधा वृत्तिर्व्यवहारोऽभ्यर्हितोचिता तपोधनानां त्वस्मत्सदृशां विशेषेण नियमेनाभ्यर्हिता ॥

तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः।
वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥१२॥

तथापीति ॥ तथापि तुल्यवृत्तौ चित्तेऽपि । हे नृप, तावकीनैस्त्वदीयैः। 'युष्मद- स्मदोरन्यतरस्यां खञ्च' इति खञ्प्रत्ययः । 'तवकममकावेकवचने' इति तवकादेशः। गुणोधैः प्रह्वीकृतमावर्जितं मे हृदयं निघ्नं त्वदायत्तम् । 'अधीनो निघ्न आयत्तः' इत्य- मरः । ननु निःस्पृहस्य कोऽयं पक्षपात इत्यत्राह-वीतेति । वीतस्पृहाणां विरक्तानां मुक्तिभाजाम् । मुमुक्षूणामपीत्यर्थः । भवन्तीति भव्याः साधवः । 'भव्यगेय--' इत्यादिना कर्तरि निपातः । तेषु पक्षपाताः स्नेहा भवन्ति । न तु साध्वनुग्रहो महतां माध्यस्थ्यभञ्जक इति भावः॥ अथ नृपस्य गुणवत्तं प्रकटयितुं धृतराष्ट्रस्य दुश्चेष्टामुद्घाटयति-

सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः ।
यस्त्यक्तवान्वः स वृथा बलाद्वा मोहं विधत्ते विषयाभिलाषः ॥१३॥

सुता इति ॥ यूयं तस्य राज्ञो धृतराष्ट्रस्य सुताः पुत्रा न किमु । अपि तु सुता एवे- त्यर्थः । गुणैः शान्तिदानदाक्षिण्यादिभिः सुयोधनं नातीता नातिक्रान्ता वा । अतीता एवेत्यर्थः । कर्तरि क्तः। असुतत्वममगुणत्वं च त्यागे हेतुः। युष्मासु तन्नास्तीत्यर्थः। उपालम्भे कारणमाह-य इति। यो धृतराष्ट्रो वो युष्मान्वृथा निष्कारणमेव त्यक्तवान् । यदि वयं सुता गुणाधिकाश्च तर्हि कथमत्याक्षीत्तत्राह-वलादिति । स विषयामिलाषो भोगतृष्णा बलाद्वा बलादिव । 'वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये' इति विश्वः । मोहमविवेकं विधत्ते । विषयाभिलाषातिरिक्तो न कश्चिद्युष्मत्त्यागहे तुरस्तीत्यर्थः । अत्र कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ .