पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
किरातार्जुनीये


अथ राज्ञ उत्सहवर्धनाय शत्रोर्हानिं सूचयति-

जहातु नेनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः।
असाधुयोगा हि जयान्तरायाःप्रमाथिनीनां विपदां पदानि ॥१४॥

जहात्विति ॥ एनं धृतराष्ट्रमर्थसिद्धिः कथं न जहातु । जहात्वेवेत्यर्थः । 'प्रैषाति- सर्गप्राप्तकालेषु कृत्याश्च' इति प्राप्तकाले लोट् । तस्य हानिकालः प्राप्त इत्यर्थः । कुतः। बो धृतराष्ट्रः संशय्य संदिह्य कर्णादिषु तिष्ठते । कर्णादीन्दुर्मन्त्रिणः संदिग्धाथै निर्णे- तृत्वेनावलम्बत इत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इति स्थेयाख्यायामात्मनेपदम् । तिष्ठतेऽस्मिन्निति स्थेयो विवादपदनिर्णेता । तथाहि । असाधुयोगा दुर्जनसंसर्गा जयान्तराया जयविघातकाः। किं च प्रमाथिनीनामुन्मूलनशीलानां विपदां पदानि स्थानानि । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । न केवलं जयघातिनः किं- त्वनर्थकारिणश्चेत्यर्थः । धृतराष्ट्रोऽपि दुर्जनविधेयत्वाद्द्विनङ्क्ष्यतीति भावः ॥

एवं शत्रोरनर्थं सूचयित्वा राज्ञोऽर्थसिद्धिं सूचयति-

पथश्च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय ।
त्वया विपत्स्वप्यविपत्ति रम्यमाविष्कृतं प्रेम परं गुणेषु ॥१५॥

पथ इति ॥ रिपूणां समितौ सभायाम्। 'सभासमितिसंसदः' इत्यमरः । पथश्च्युतायां मार्गाद्भ्रष्टायाम् । दुरात्मनो दुःशासनस्य स्त्रीग्रहणसाहसमङ्गीकृतवत्यामित्यर्थः। चिराय धर्म्यां धर्मादनपेताम् । 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । धुरं भारं दधानेन । कृच्छ्रेष्वपि धर्मादचलतेत्यर्थः । त्वया विपत्स्वपि । अविपत्त्यविनाश्यत एव रम्यं गुणेषु शान्त्यादिषु विषये परमुत्कृष्टं प्रेमाविष्कृतं प्रकटीकृतम् । दुःसहमपि सोढवता त्वया साधु कृतमिति भावः ।।

विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन ।
प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते॥१६॥

  विधायेति ॥ किं च शम एवैका मुख्या वृत्तिर्यस्य तस्यापरॊपतापिनो भवतश्छलेन कपटेन । आत्मने हित आत्मनीनः । स न भवतीत्यनात्मनीनः । स्वस्यैवानर्थहेतुरित्यर्थः । तम्। 'आत्मन्विश्वजनभोगोत्तरपदात्खः' इति खप्रत्ययः । विध्वंसमपकारं विधाय कृत्वा । प्रकाशितः प्रख्यापितस्वन्मतिशीलयोस्तव प्रज्ञासद्वृत्तयोः सारः प्रकर्षो यैस्ते तथोक्ताः। ते तव विद्विषः कृतोपकारा इवोपकृतवन्त इव । अपकारोऽप्युपकारायैव संवृत्तः ।यदेषां दौर्जन्यं युष्मत्सौजन्यं च जगति सुव्यक्तमासीदित्यर्थः । विद्यमानस्यापि सुजनस्य चन्दनदारुण इव गुणाः परिभव एव प्रचुरीभवन्तीति भावः ।।