महत्त्वयोगाय महामहिम्नामाराधनीं तां नृप देवतानाम् । |
महत्त्वेति ॥ हे नृप, महत्त्वयोगाय प्रकर्षलाभाय महामहिम्नां महानुभावानां देवता- नामिन्द्रादीनाम्। आराध्यतेऽनयेत्याराधनी ताम् । प्रसादयित्रीमित्यर्थः । करणे ल्युट् । ङीप् । भूरिधाम्नीं महाप्रभावाम् । 'धाम देशे गृहे रश्मौ स्थाने जन्मप्रभावयोः' इति विश्वः । 'अन उपधालोपिनोऽन्यतरस्याम्' इति वा ङीप् । विद्यामिन्द्रमन्त्र- रूपां सिद्धिं साक्षात्कार्यसिद्धिमिवेति विद्याया अमोघत्वोक्तिः। हे प्रदानोचित दान- पात्रभूत । फलभोक्तृत्वादस्य पात्रत्वोक्तिः। दातुमुपागतोऽस्मि ।।
इत्युक्तवन्तं ब्रज साधयेति प्रमाणयन्वाक्यमजातशत्रोः । |
इतीति ॥ इत्युक्तवन्तं प्रसेदिवांसं प्रसन्नम् । 'भाषायां सदवसश्रुवः' इति क्वसुः। तं मुनि जिष्णुर्जयनशीलोऽर्जुनः । 'ग्लाजिस्थश्च-' इति ग्स्नुप्रत्ययः । ब्रज साधयानु- तिष्ठेत्येवंरूपम् । अजातशत्रोधर्मराजस्य । स्वयमविद्वेषणशीलत्वादियं संज्ञा । वाक्यं प्रमाणयन् । तदादिष्टः सन्नित्यर्थः । अन्ते वसंश्छात्र इव । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । विनयेनानौद्धत्येनोपाससाद समीपं प्राप ॥
निर्याय विद्याथ दिनादिरम्याद्बिम्बादिवार्कस्य मुखान्महर्षेः । |
निर्यायेति ॥ अथ वह्निकणावदाता स्फुलिङ्गवदुज्ज्वला । देवतासान्निध्यादिति भावः । विद्येन्द्रमन्त्ररूपा । दिनादिरम्यादर्कस्य प्रभातभास्करस्य बिम्बादिव महर्षे- र्व्यासस्य मुखान्निर्याय निर्गत्य । समासेऽनञ्पूर्वे क्त्वो ल्यप् । दीप्तिरर्कदीधितिः । स्फुरद्विकसत्पद्ममिव । पार्थाननमर्जुनस्य मुखमभिपेदे प्रविष्टा ॥
योगं च तं योग्यतमाय तस्मै तपःप्रभावाद्विततार सद्यः । |
योगं चेति ॥ योग्यतमायार्हतमाय तस्मै पार्थाय तं वक्ष्यमाणमहिमानं योगं ध्यान- विधिं च । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । तपःप्रभावात्सद्यो वित- तार ददौ । चिरकालग्राह्यमपीति भावः । येन योगेन तत्त्वेषु प्रकृतिमहदादिषु । तथा च । मूलप्रकृतिर्महानहंकारो मनश्च पञ्च तन्मात्राणि पञ्च बुद्धीन्द्रियाणि पश्च कर्मेन्द्रि- याणि पञ्च महाभूतानीति चतुर्विंशति तत्त्वानि । तत्रावभासे साक्षात्कारे कृते सत्य- स्यार्जुनस्य चक्षुरक्षि चिराय समुन्मिमीलेवोन्मिषितमिवेत्युत्प्रेक्षा। तदा तस्य कोऽपि महानखिलाज्ञानभञ्जनस्तत्त्वावभासश्चिरादन्धस्य दृष्टिलाभ इवाभवदिति भावः ॥