पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
किरातार्जुनीये


आकारमाशंसितभूरिलाभं दधानमन्तःकरणानुरूपम् ।
नियोजयिष्यन्विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥२७॥

आकारमिति ॥ आशंसित आख्यातो भूरिलाभोऽनेकश्रेयःप्राप्तिर्येन तं तथोक्तम् । महाभाग्यसूचकमित्यर्थः । अन्तःकरणशब्देन तद्वृत्तिरुत्साहो लक्ष्यते। तदनुरूपं तदनुकू- लम् । उत्साहानुगुणव्यापारक्षममित्यर्थः । आकारं मूर्तिं दधानं तमर्जुनं मुनिर्विज- योदये विजयफलके तप:समाधौ तपोनियमे । 'समाधिनियमे ध्याने नीवाके च स- मर्थने' इति विश्वः । नियोजयिष्यन् । नियोजयितुमिच्छन्नित्यर्थः । 'लट् शेषे च' इति लट् । 'लृटः सद्वा' इति सत्प्रत्ययः । इति वक्ष्यमाणमुवाच ॥

अनेन योगेन वि[१]वृद्धतेजा निजां परस्मै पदवीमयच्छन् ।
समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥२८॥

अनेनेति ॥ अनेन स्वोपदिष्टेन योगेन विवृद्धतेजा निजां पदवी परस्मा अयच्छन् । परस्य प्रवेशमयच्छन्नित्यर्थः । उपात्तशस्त्रो निगृहीतायुधः सन् । जपोपवासाभिषवैः स्वाध्यायानशनस्नानैर्मुनीनामाचारं समाचरानुतिष्ठ ॥ क्षेत्रविशेषे तपःसिद्धिरित्याशयेन तं निदर्शयन्नाह-

करिष्यसे यत्र सु[२]दुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि।
शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥२९॥

करिष्यस इति ॥ यत्र शिलोच्चये गोत्रभिद् इन्द्रस्य प्रसत्तये प्रसादाय सुदुश्चराणि तपांसि करिष्यसे । चारुशिलोच्चयं रम्यशिखरं तं शिलोच्चयं गिरिमिन्द्रकीलरूपम् । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । त्वामेष गुह्यको यक्षः। अनन्तरमे- चास्य पुर:प्रादुर्भावादेम इति निर्देशः । क्षणानेष्यति प्रापयिष्यति ॥

इति ब्रुवाणेन म[३]हेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे ।
तं राजराजानुचरोऽस्य सा[४]क्षात्प्रदेशमादेशमिवाधितष्ठौ ॥३०॥

इतीति ॥ इतीत्थं महेन्द्रसूनुमर्जुनं ब्रुवाणेनोक्तवता । 'वर्तमानसामीप्ये' इति भूते वर्तमानवत्प्रत्ययस्तिरोधानस्याविलम्बसूचनार्थः । तेन महर्षिणा व्यासेन तिरोबभूवे- ऽन्तर्दधे । भावे लिट् । राजराजो यक्षराजः । 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियश क्रयोः' इति विश्वः । तस्यानुचरः पूर्वोक्तयक्षोऽस्य मुनेरादेशं साक्षादिध प्रदेशमर्जु- नाधिष्ठितस्थानमधितष्ठौ । प्राप्त इत्यर्थः । स्थादिष्वभ्यासेन चाभ्यासस्य' इति षत्वम् ।।

कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ।
इयाय सख्याविव संप्रसादं विश्वासयत्याशु सतां हि योगः॥३१॥


  1. 'समृद्धतेजाः' इति पाठः
  2. 'सुदुष्कराणि' इति पाठः
  3. 'नरेन्द्रसूनुम्' इति पाठः,
  4. 'सधः' इति पाठ: