पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
तृतीय: सर्गः ।


तेन मनःप्रसादाञ्जलिना । पथि साधु पाथेयं शम्बलमिव । 'पथ्यतिथिवसतिस्वप- तेर्ढञ्' । निकाममतिशयेन जग्राह । रामार्पितं पाथेयं पथि क्षेमाय भवतीत्यागमः ॥

धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः ।
निरुद्धबाष्पोदयसन्नकण्ठमुवाच कृच्छ्रादिति राजपुत्री ॥३८॥

धैर्यति ॥ वन्यद्विपेन । वन्यग्रहणमुच्छृङ्खलत्वद्योतनार्थम् । निदाघसिन्धुर्ग्रीष्मनदीव निदाधग्रहणं दौर्बल्यद्योतनार्थम् । धैर्यावसादेन धैर्यभ्रंशेन कर्त्रा हृतप्रसादा हृत- नैर्मल्यां। क्षोभं गमितेत्यर्थः । राजपुत्री क्षत्रियसुता द्रौपदी । अतः क्षात्रयुक्तमेव वक्ष्यतीति भावः । निरुद्धबाष्पोदयं संरुद्धरोदनं सन्नकण्ठं हीनस्वरम् ।अथ तयोरुभयोः कृतबहुव्रीह्योः क्रियाविशेषणयोर्विशेषणसमासः। कृच्छ्रात्कथंचिदिति वक्ष्यमाणमुवाच ॥

मग्नां द्विषच्छद्मनि पङ्कभूते संभावनां भूतिमिवोद्धरिष्यन् ।
आधिद्विषामा तपसां प्रसिद्धेरस्मद्विना मा भृशमुन्मनीभू: ॥३९॥

मग्नामिति ॥ पङ्कभूते पङ्कोपमिते । 'भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमा- नयोः' इति विश्वः । द्विषच्छद्मनि शत्रुकपटे मग्नाम् । दुरुद्धरामित्यर्थः । संभावनां योग्यताम् । गौरवमिति यावत् । भूतिं संपदमिव । 'भूतिर्मस्मनि संपदि' इत्यमरः । उद्धरिष्यन् । उद्धारकस्त्वमिति शेषः । आधिद्विषां दुःखच्छिदां तपसामा प्रसिद्धेः सम्यक्सिद्धिपर्यन्तमस्मद्विना । अस्माभिर्विनेत्यर्थः । 'पृथग्विना--' इत्यादिना विक- ल्पात्पञ्चमी । भृशं मोन्मनीभूः । अस्मद्विरहाद्दुर्मना मा भूरित्यर्थः । दौर्मनस्यस्य तपःपरिपन्थित्वादिति भावः।'माङि-' इत्याशीरर्थे लुङ्।'न माङयोगे' इत्यडागम- प्रतिषेधः । अनुन्मना उन्मनाः संपद्यमान उन्मनी । अभूततद्भावे च्वि: । 'अरुर्मनश्च- क्षुश्चेतोरहोरजसां लोपश्च' इति सकारलोपः । 'अस्य च्चौ' इतीकारः ॥

अथानौत्सुक्यदार्ढ्यार्थं तस्य सर्वार्थसिद्धिनिदानत्वमाह-

यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः॥४०॥

यश इति ॥ यशोऽधिगन्तुम् । कीर्ति लब्धुमित्यर्थः । सुखस्य लिप्सया लब्धुमि- च्छया वा । मनुष्यसंख्यां मनुष्यगणनामतिवर्तितुमतिक्रमितुं वा । अमानुषं कर्म कर्तुं वेत्यर्थः । अभियोगभाजामभिनिवेशवतां निरुत्सुकानामनुत्सुकानाम् । अदुर्मनाय- मानानामित्यर्थः । सिद्धिः पूर्वोक्तं यशः सुखाद्यर्थसिद्धिश्च । समुत्सुकेवानुरक्तकान्ते- स्वाङ्कमुत्सङ्गमन्तिकं चोपैति। तस्मादसद्विरहदुःखमातपःसिद्धेः सोढव्यमिति भावः ॥