वीतेति ॥ हे पार्थ, वीतौजसो निष्प्रभाः संनिधिमात्रशेषाः सत्तामात्रावशिष्टा भव-
त्कृतां भवता करिष्यमाणाम् । 'आशंसायां भूतवच्च' इति भूतवत्प्रत्ययः। भूतिमभ्युद-
यमपेक्षमाणास्त्वदीया गुणाः समानदुःखाः समदुःखभाज इव नोऽस्माकं सरूपतां
वीतौजस्त्वादिसाधर्म्यं भजन्त इत्युपमा । सा च समानदुःखा इवेत्युत्प्रेक्षया वीतौज-
स्त्वादिसंभावितयानुप्राणितेत्यनुसंधेयम् ॥
तथापि ममैव कोऽयं भार इत्यत आह-
आक्षिप्यमाणं रिपुभिः प्र[१]मादान्नागैरिवालूनसटं मृगेन्द्रम् । |
आक्षिप्येति ॥ प्रमादात्प्रज्ञाहीनत्वात् । नतु दौर्बल्यादिति भावः । रिपुभिराक्षिप्य- माणमधिक्षिप्यमाणमतएव प्रमादात् । नागैर्गजैः। 'ग्रहेभाहिगजा नागाः' इति वैजयन्ती । आलूनसटमाक्षिप्तकेसरम् । 'सटा जटाकेसरयोः' इत्यमरः।मृगेन्द्रं सिंहमिवस्थितम् । स्वामियं धूः कार्यभारः। तिग्मरश्मिं सूर्यं दीप्त्या दिनश्रीरिव योग्यतया निर्वाहकतयाधिरूढारूढवती । कर्तरि क्तः । त्वदधीनेत्यर्थः ॥
पूर्वं निर्व्यवसायस्य 'स क्षत्रियः' इत्यादिना दोष उक्तः। संप्रति व्यवसायिनो गुणमाह-
करोति योऽशे[३]षजनातिरिक्तां संभावनामर्थवतीं क्रियाभिः । |
करोतीति ॥ यः पुमानशेषजनादितरजनादतिरिक्तामधिकाम् । सर्वातिशायिनीमि- त्यर्थः । संभावनां योग्यतां क्रियाभिश्चरितैरर्थवतीं सफलां करोति । तं पुमांसं संसत्सु सभासु । 'सभासमितिसंसदः' इत्यमरः । पुरुषाधिकारे योग्यपुरुषगणनाप्रस्तावे जाते सति । पूर्यतेऽनयेति पूरणी संख्या द्वित्वादिसंख्या न समुपैति न गच्छति । अद्वितीयो भवतीत्यर्थः । तस्मादसाधारणलाभाय त्वयापि महानुत्साह आस्थेय इति भावः ॥
अथ द्वाभ्यां सुलभविपक्षस्य प्रोषितस्यार्जुनस्य कर्तव्यमुपदिशति--
प्रियेषु यैः पार्थ विनो[४]पपत्तेर्विचिन्त्यमानैः क्लममेति चेतः। |
प्रियेष्विति ॥ हे पार्थ, प्रियेष्वस्मासु विषय उपपत्तेः कारणाद्विनैव विचिन्त्यमानै- रकस्मादेवाशङ्क्यमानैर्यैरधैश्चेतः क्लमं खेदमेति । जयाय प्रयातस्य तव संबन्धिनां तेषामघानां व्यसनानाम्। 'दुःखैनोव्यसनेष्वघम्' इत्यमरः। मधवेन्द्रः । योऽस्माभिरुपा-