स्यत इति भावः । विघातं निवारणं क्रियात्करोतु । आशिषि लिङ् । तस्मादस्मच्चिन्तया
न चेतः खेदयितव्यं जयार्थिना त्वया । अन्यथा तदसंभवादिति भावः ।।
भागाश्चिरायैकचरः प्रमादं वसन्नसंबाधशिवेऽपि देशे। |
भागा इति ॥ असंबाधोऽसंकटः। विजन इत्यर्थः। 'संकटं ना तु संबाधः' इत्यमरः । शिवो निर्बाधः । द्वयोरन्यतरस्य विशेष्यत्वविवक्षायां विशेषणसमासः । अस्मिन्नसंबाधशिवेऽपि देशे चिराय चिरमेकश्चासौ चरश्चेत्येकचर एकाकी वसन्प्रमादं दौर्बल्यं मा गा: । 'इणो गा लुङि' इति गादेशः। नतु निःस्पृहस्य ममाकिंचित्करः प्रमाद इति वाच्यमित्याशङ्क्याह-मात्सर्येति । मत्सर एव मात्सर्यं द्वेषो रागः स्नेहस्ताभ्यामुपहत्तात्मनां रागद्वेषदूषितस्वभावानां मानसानि मनांसि साधुषु सज्जनेष्वपि विषयेस्खलन्ति विकुर्वते हि । अत्र प्रमादनिषेधलब्धाप्रमादरूपकारणेनार्थप्राप्तिरूपकार्यस्य व्यतिरेककारणसमर्थनाद्वैधर्म्येण कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥
निगमयति-----
तदाशु कुर्वन्वचनं महर्षेर्मनोरथान्नः सफलीकुरुष्व । |
तदिति ॥ तत्तस्मात्कारणात् । आशु शीघ्रं महर्षेर्वचनं कुर्वन् । तपस्यन्नित्यर्थः। नोऽस्माकं मनोरथान्सफलीकुरुष्व । अरिनिर्यातनेनास्मान्प्रतिष्ठापयेत्यर्थः । प्रार्थनायां लोट्। किंच कृतार्थं कृतकृत्यं प्रत्यागतमेव त्वा त्वाम् । 'त्वामौ द्वितीयायाः' इति त्वादेशः । स्तनयोरुपपीड्य स्तनोपपीडम् । 'सप्तम्यां चोपपीडरुधकर्षः' इति णमुल् । परिरब्धुं कामो यस्याः सा परिरब्धुकामास्मि । आलिङ्गितुमिच्छामीत्यर्थः। 'तुंकाममनसोरपि' इति मकारलोपः। प्राक्कार्यसिद्धेः प्रमदालिङ्गनमपि न प्रीतिदमिति भावः ॥
उदीरितां तामिति याज्ञसेन्या नवीकृतोद्भाहितविप्रकासम् । |
उदीरितामिति । सोऽर्जुन इतीत्थं यज्ञसेनस्यापत्येन स्त्रिया याज्ञसेन्यां द्रौपद्योदी- रितामुक्ताम् । नवीकृतः पुनरुद्धाटनेन तथा प्रत्यायितोऽतएवोद्ग्राहितो मनसि निधापितश्च विप्रकारः परिभवो यया सा तां वाचमासाद्य । आकर्ण्येत्यर्थः । उदीचीं काष्ठां दिशम् । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तिग्मरश्मिरिव । भृशं दिदीपे जज्वाल । चुक्रोधेत्यर्थः ।।
- ↑ 'भुजोपपीडम्' इति पाठः