पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/७

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गाङ्कः ।
विषयः ।

समीपे गमनं तत्तपोवृत्तकथनं च । शिवकृतं मुनिसान्त्वनमर्जुनस्वरूपकथनं च । वराहरूपमास्थायार्जुनपराभवार्थमागतस्य मूकदानवस्य वधार्थभर्जुनानुजिघृक्षया च किरात- रूपधारिणस्तद्रूपधारिण्यैव गणसेनया समेतयं भगवतो मृगयाव्याजेनार्जुनाश्रमे गमनवर्णनम् ।

१३ वराहरूपधारिणो मूकदानवस्यार्जुनकृतं विलोकनम् । तद्विलोकनेनार्जुनस्य नानाविधा वितर्काः । वराहं प्रति भगवतोऽर्जुनस्य च बाणमोक्षवर्णनम् । वराहमृत्युवर्णनम् । वराहशरीरतः स्वबाणमाददानमर्जुनं प्रति शिवप्रहितस्य वनेचरस्योत्तेजकं वाक्यम् ।

१४ वनेचरं प्रत्यर्जुनवचनम् । तच्छ्रुत्वागतस्य वनेचरस्य वचनमाकर्ण्य सेनासमेतस्य लीलाकिरातस्य भगवतोऽर्जुनविजयार्थमागमनम् । भगवत्सेनयार्जुनस्य युद्धवर्णनम् ।

१९ चित्रयुद्धवर्णनम् ।

१६ किरातवेषस्य भगवतो नितान्तं युद्धकौशलं विलोक्यार्जुनस्य वितर्कः । भगवता सहार्जुनस्यास्त्रयुद्धवर्णनम् ।

१७ सेनया सहार्जुनयुद्धवर्णनम् । भगवदर्जुनयोर्युद्धवर्णनम् ।

१८ भगवदर्जुनयोर्बहुयुद्धवर्णनम् । अर्जुनस्य सत्त्वातिशयं विलोक्य भगवतः प्रसादः स्वरूप प्रकटीकरणं च । तत्रैवेन्द्रादिदेवागमनम् । अर्जुनकृता भगवत्स्तुतिः । वरयान्वनम् । अर्जुनं प्रति पाशुपतास्त्रसमेतस्थ धनुर्वेदस्य भगवत्कृत उपदेशः । इन्द्रादिदेवानामपि भगवदाज्ञयार्जुनं प्रति वरदानं स्वस्वास्त्रदानं च । कृतकृत्यस्यार्जुनस्य भगवदाज्ञया युधिष्ठिरसमीप आगमनम् । ग्रन्थसमाप्तिः ।