जनैरुपग्राममनिन्द्यकर्मभिर्विविक्तभावेङ्गितभूषणैर्वृताः। |
जनैरिति ॥ सोऽर्जुन उपग्रामं ग्रामेषु । विभत्त्यर्थेऽव्ययीभावः । अनिन्द्यकर्मभिर- निषिद्धवृत्तिभिः । वृत्तिश्चैकत्र कृप्यादिरन्यत्र शिलोञ्छादिः । विविक्तान्येकाग्राणि भावोऽभिप्राय इङ्गितं चेष्टा भूषणमलंकारश्च येषां तैस्तथोक्तैर्जनैर्वृताः । अधिष्ठिता इत्यर्थः । अतएवाश्रमेषु मुनिस्थानेषु ये मण्डपास्तदुपमाः । 'मण्डपोऽस्त्री जनाश्रयः' इत्यमरः । सपुष्पहासाः पुष्पविकाससहिताः । तेन सह-' इत्यादिना बहुव्रीहिः । निवेशवीरुधो गृहगुल्मिनीः । 'बीरुधो वल्लिगुल्मिन्यौ' इति वैजयन्ती । भृशं सादरं ददर्श । उपमालंकारः ॥
ततः स संप्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् । |
तत इति ॥ ततः स पूर्वोक्तो यक्षः शरद्गुणश्रियं संप्रेक्ष्य । दर्शनीयां वर्णनीयां च विचार्येत्यर्थः । शरद्गुणालोकने लोलचक्षुषं सतृष्णदृष्टिम् । 'लोलश्चलसतृष्णयोः' इत्यमरः । तमर्जुनमचोदितोऽप्यपृष्टोऽपि गां वाचमुवाच । तथाहि । इङ्गितज्ञो भावज्ञ: । 'इङ्गितं हृद्गतो भावः' इति विश्वः । अवसर उक्तियोग्ये काले नावसीदति न वाचं यच्छति । 'नापृष्टः कस्यचिद्ब्रूयात्' इति निषेधस्त्वनाकाङ्क्षितोक्तिविषय इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥
इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रिया । |
इयमिति ॥ हे पार्थ, शिवायाः कल्याणकारिण्या नियतेः।'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधि:' इत्यमर:। शुभावहदैवस्यायति: फलदानकाल: सैव जगत: क्रिया कृष्यादिकर्माणि फलैर्लाभैः । 'लाभनिष्पत्तियोगेषु बीजभावे धने फलम्' इति वैजयन्ती । कृतार्थयन्ती सफलयन्ती प्रसन्नाम्बुर्निर्मलोदकानम्बुवारिदा निर्जलमेघा । अनेन विशेषणद्वयेन द्यावापृथिव्योरानुकूल्यं सूचयति । इयं शरते जयश्रियं पृथूक- रोतु । आशीरर्थे लोट् ॥
उपैति सस्यं प[१]रिणामरभ्यता नदीरनौद्धत्यमपङ्कता महीम् । |
उपैतीति ॥ सस्यं व्रीह्यादिकं परिणामेन परिपाकेन या रम्यता सोपैति । नदीरनौद्धत्यं गम्यरूपत्वमुपैति । महीमपङ्कता निष्पकत्वमुपैति । तथाहि । संप्रति
- ↑ 'परिणामरम्यताम्' इति पाठः