तपम् । न दृष्टिबाधो नाप्यातपबाध इति भावः । सान्तरवारिशीकरैर्विरलाम्बुकणैस्त-
तान्तरं व्याप्तमध्यं सरोजवायुभिः शिवं रम्यं नभोवर्त्म चापदिश्येति । स्वभावोक्तिरलंकारः॥
सितच्छदानामपदिश्य धावतां रु[१]तैरमीषां ग्रथिताः पतत्रिणाम् । |
सितेति ॥ अपदिश्य धावतामिति पूर्वश्लोकत्रयोक्तं पयःप्रभृतिकमुद्दिश्य धावताममीषां सितच्छदानां पतत्रिणां हंसानाम् । 'हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः'इत्यमरः । रुतैः शब्दैर्ग्रथिता दृब्धाः । 'ग्रथितं गुम्फितं दृब्धम्' इत्यमरः। वारिदरोधनिर्गता मेघोपरोधनिर्मुक्ता अतएवामलाः प्रसन्ना दिशः परस्परालापं प्रकुर्वत इव । दिष्टया मेघोपरोघनिर्मुक्ताश्चिरादुच्छसिता इति हंसकूजितव्याजेन परस्परमालपन्तीवेत्युत्प्रेक्षा ॥
विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः । |
विहारेति ॥ विहारभूमेः । अपररात्रगोचरादित्यर्थः आगच्छन्त्य इति शेषः । अभिघोषमुत्सुका व्रजं प्रत्युत्कण्ठिताः । वत्सप्रेम्णेति भावः । 'घोष आभीरपल्ली स्यात्' इत्यमरः । च्युता त्रुटिता यूथानां कुलानां पङ्क्तिः श्रेणीबन्धो यासां तास्तथोक्ताः । 'सजातीयैः कुलं यूथम्' इत्यमरः । अमूर्धेनवोऽसक्तमप्रतिबन्धं पयः क्षीरं क्षरन्ति स्रवन्ति । वत्सस्मरणात्प्रस्रवन्तीत्यर्थः । क्षरतेः शतृप्रत्ययः । ऊधांसि शरीरजेभ्योऽपत्येभ्य उपायनानीवातितोषकारीणीवेत्युत्प्रेक्षा । नयन्ति प्रापयन्ति । यथा लोके कुतश्चित्प्रवासादेत्य मातरः किंचित्खाद्यमानयन्ति तद्वदिति भावः ॥
जगत्प्रसूतिर्जगदेकपा[२]वनी व्रजोपकण्ठं तनयैरुपेयुम्षी। |
जगदिति ॥ जगत्प्रसूतिर्जगत्कारणम् ।आज्यादिहविर्द्वारेणेति भावः । जगतामेकपावनी मुख्यशोधनी व्रजोपकण्ठं गोष्ठान्तिकम् । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति द्वितीया । 'उपकण्ठान्तिकाभ्यर्णाभ्यग्रा:' इत्यमरः । तनयैर्वत्सैरुपेयुषी संगता ।'उपेयिवाननाश्वाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः । 'उगितश्च' इति ङीप् । असौ गवां समितिः संहतिः। मन्त्रैर्ऋग्यजुषादिभिः । 'मन्त्रो ऋगादिगुह्योक्ति-' इति वैजयन्ती । संहिता योजिताहुतिरिव । समग्रां द्युतिमुपैति । आहुतिरपि जगत्प्रसूतिर्जगदेकपावनी च । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते दृष्टिर्वृष्टेरन्नं ततः प्रजाः॥' इति स्मरणादिति भावः ॥