पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
किरातार्जुनीये


ऽत्र वितर्के । 'नु पृच्छायां वितर्के च' इत्यमरः । रभसो वेगः। 'रभसो वेगहर्षयोः इति वैजयन्तीविश्वप्रकाशौ । तद्वत्या रभसया । अतीवोत्कण्ठतयेति यावत् । अर्शआ- दित्वादच्प्रत्ययः । दिगन्तानां दिदृक्षया नु द्रष्टुमिच्छया वा । नभोऽन्तरिक्षं विलङ्घयि- तुंन्वतिक्रमितुं वा । समुदितम् । समुत्पतितमिव स्थितमित्यर्थः । कुतः। उच्छ्रितमुन्नतं हिमस्याचलं हिमाचलमभिययौ । अत्र निर्धारितानेकफल औनत्यगुणनिमित्तोदितादि- क्रियोत्प्रेक्षा। सा च व्यञ्जकाप्रयोगात्प्रतीयमानेति संक्षेपः। द्रुतविलम्बितं वृत्तम्- 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥

तपनमण्डलदीपितमेकतः सततनैशतमोवृतमन्यतः।
हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥ २ ॥

तपनेति ॥पुनः। एकत एकस्मिन्भागे। सार्वविभक्तिकस्तसिः। तपनमण्डलेन दीपितं प्रकाशितम् । अन्यतोऽन्यस्मिन्भागे सततेनानिषिद्धेन नैशेन निशिभवेन तमसा वृतम् । एकत्राह्लारात्र्या चान्यत्र संगतमित्यर्थः । अतएव पुरोऽग्रे हसितेनाट्टहासेन भिन्नत- मिस्रचयं निरस्ततमस्तोमं तथा गजचर्मणानुगतं पश्चाद्व्याप्तम् । 'पश्चात्सादृश्ययोरनु' इत्यमरः । शिवमिव स्थितम् । तपनतेजःप्रसारोऽप्यस्य कण इव कुत्रचित्परिसमाप्यत इति महत्त्वातिशयोक्तिः ॥

क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः।
प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शंभुना ॥३॥

क्षितीति ॥ परस्परेऽन्योन्ये । 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः' इति वक्तव्यात्पर- शब्दस्य द्विर्भावः। 'समासवच्च बहुलं यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य' इति वक्तव्यात्प्रथमैकवचनम् । सुट् । कस्कादित्वाद्विसर्जनीयस्य सत्वं बहुवचनं चान्योन्यशब्दवत् । यथा माघे-'अन्योन्येषां पुष्करैरामृशन्तः' इति । अदृष्टाः परस्परे यैस्तेऽदृष्टपरस्परास्तैस्तथोक्तैः । क्षितौ नभसि सुरलोके च निवसन्तीति तैस्तथोक्तैः । भूर्भुवःस्वर्लोकवासिभिरित्यर्थः । कृतनिकेतं कृतास्पदम् । अतएव शंभुना विभुतां स्वसामर्थ्यं प्रथयितुमभिनिर्मितं जगतां प्रतिनिधिं प्रतिकृतिमिव स्थितमित्युत्प्रेक्षा। 'प्रतिकृतिचर्या पुंसि प्रतिनिधिरुपमोपमानं स्यात्' इत्यमरः । त्रैलोक्यश्लाघ्योपमम- परिच्छेद्यं चेति भावः ॥

भुजगराजसितेन नभःश्रिता कनकराजिविराजितसानुना ।
समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥ ४॥

भुजगेति ॥ पुनश्च । भुजगराजसितेन शेषाहिधवलेन नभःश्रितां गगनस्पृशा कनकस्य राजिभी रेखाभिर्विराजिताः सानवो यस्य तेन तथोक्तेन । अतएव तडित्वतीं शर- दम्बुदसंहतिं शरन्मेघचयं लघयता लघूकुर्चता । तत्तुल्येनेत्यर्थः । अतएवोपमालंकारः। निचयेन शिखरसमूहेन समुदितं समुन्नतम् । निचयेनेति । यद्यपि निचयशब्दः शिखर-